________________
३६
जिनदत्तकथानकम्
[ वामनरूपधारिणे जिनदत्ताय निजकन्यादाने प्रतिज्ञाबद्धचम्पानगरीनृपस्य चिन्ता ]
ततः सभाऽऽसीनस्य नृपस्य पुरो गत्वा वामनो भाषते - राजन् ! निजप्रतिज्ञां पूरय, स्ववाणी प्रमाणीक्रियताम् । इति श्रुत्वा नृपतिरित्थं खिद्यते स्म " यदयं चार्वाकः कुरूपो वामनः क्व ? क्व चासौ मत्पुत्री मदनमञ्जरी सुरसुन्दरीसमा ?, ततः सम्बन्धोऽयमत्यर्थमनुचितः, यथा काकस्य ग्रीवायां मुक्तावली न शोभते, इत्थं योजितः सम्बन्धो लोकापवादाय स्यात् । यदुक्तम् -
तथा च -
-
कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते, भत्रति योजयितुर्वचनीयता ॥ १२६॥
तथा -
अज्ञातप्रतिभूकर्ता, अज्ञातस्थानदो गृहे ।
अज्ञातकुलसम्बन्धः, अज्ञातफलभक्षकः ॥ १२७॥
ततः सम्प्रति कथमहं करोमि ?, एकतः प्रतिज्ञा, अन्यतः कुयोगः ; ' इतो व्याघ्रः, इतस्तटी ' इति न्यायो जातः " । इति विचिन्त्य राजोचे - भो वामन ! कन्यां विना देशं गजं तुरङ्गमं परमपि प्रकृष्टं वस्तु याचस्व ।
C3
अथ वामनो वदति
." राजन् ! श्रृणु
समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः । प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥ १२८ ॥
अलसंतेहिं' विहु सज्जणेहिं जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरिय व्व नहु अन्हा हुंति ॥१२९॥
इति जानन्नपि त्वं यदि प्रतिपन्नं न पालयसि तदा मम देशादिभिरप्यलम् " । ततो भूपति"अहो सङ्कटं जातम्, किमहं करोमि ? अनेनापि युक्तमुक्तम् । यदुक्तम् -
दध्यौ
राज्यं यातु, श्रियो यान्तु शरीरं यातु मे ध्रुवम् ।
या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ १३० ॥
1. अलसायमानैरपि खलु सज्जनैः ये अक्षराः समुल्लपिताः ते प्रस्तरङ्कोत्कीर्णा इव न खलु अन्यथा
भवन्ति ॥ 2. • टंकक्कोरिय व्व' प्रत्यन्तरे ॥ 3. ' यान्तु यान्तु प्राणा विनश्वराः । या' प्रत्यन्तरे ॥
०