________________
जिनदत्तकृतं मदोन्मत्तहस्तिवशीकरणम् अत्रान्तरे वामनेन पटहः स्पृष्टः । ततो राज्ञोऽग्रे पाटहिकस्तत्र व्यतिकरे विज्ञप्ते राजादेशात् प्रधानैः स वामनो राज्ञोऽग्रे समानीतः । 'भो वामन ! त्वं हस्वरूपोऽपि महासुभटदुराकलनीयं गजं वशं कथं नेष्यसि ?, स्वात्मशक्ति विचारय' इति राज्ञोक्ते वामन आह -
“कां' किज्जइ लहुडई वडई ? पुरिसह फुरण प्रमाण ।
लहुड केसरि समरभरि मलइ गइंदह माण ॥१२४॥ अथवा बहुवाग्जालेन किम् ? फले व्यक्तिर्भविष्यति, यतो महान्तः कर्तव्यशूराः, न तु वाक्छूराः; ततो महाराज ! कदाचिदिदमपि स्यात् तदा किं दत्से"। ततो भूपतिः सर्वजनसमक्षमूचे-यद्येवं स्यात् तदा 'अर्द्धराज्यं कन्यां च ददामि' इति मम प्रतिज्ञा ।
ततो वामनो विनोदेन गजवशीकरणी विद्यां स्मृत्वा चचाल । राजादयस्तु लोकाः पृष्ठस्थिताः कौतुकं विलोकयन्ति । तदा गजान्तिकं गत्वा वामनस्तमाहवयते - रे पशो! किं वृथा वराकं लोक नटयसि ?, यदि तव काऽपि शक्तिरस्ति तदा मत्सम्मुखमागच्छ । इति श्रुते शुण्डामुत्पाट्य रोषारुणः स गजो धावितः । ततो वामनस्तनुलाघवेन पुरःस्थितो यथा चक्रवद् भ्राम्यति तथा स गजोऽपि पृष्ठलग्नो भ्रमति । इत्थं बहुवेलं भ्रमरकवत् तेन स गजो भ्रामितः । ततः श्रमेण सर्वमदोऽस्य गलितः, निर्वीर्यत्वं च जातम् । ततः करणं दत्वा वामनो गजशिरो वेगादारूढः, कुम्भस्थले मुष्टिप्रहारेण हत्वा गजो वशीकृतश्च । ततो जनो दध्यौ-नायं वामनमात्रः, किन्तु सुरो विद्याधरो विद्यासिद्धो नरो वा कोऽप्यस्ति । ___अथ सर्वलोकेषु कौतुकं पश्यत्सु राजानं तत्राऽऽगतमालोक्य स्वयं स वामनो विनीतत्वाद् गजादुत्तीर्णः । अहो ! कुलीनानां स्वभाव ईदृश एव स्यात् । यतः -
'को चित्तेइ मयूरे ?, गई च को कुणइ रायहंसाणं ? ।
को कुवलयाण गंधं, विणयं च कुलप्पसूयाणं ? ॥१२५॥ ततो वामनो वदति – हे राजराज ! त्वमेनं गजराजमारोह, मा भैषीः । इत्युक्तोऽपि नृपो विभ्यत् तं नाऽऽरुरोह, 'बृहस्पतिरविश्वस्यः' इति नीतिवाक्यप्रामाण्यात् । ततः स्वयं वामनेन विद्याबलेन कर्णे धृत्वा क्षणेन हस्ती हस्तिशालायां बद्धः ।
___1. किं क्रियते लघुना गुरुणा ?, पुरुषस्य स्फुरणं प्रमाणम् । लघुः केशरी समरभरे मर्दयति गजेन्द्रस्य मानम् ॥ 2. वडई? सत्तह फुरइ प्र° प्रत्यन्तरे ॥ 3. दलड प्रत्यन्तरे ।। 4. कः चित्रयति मयूरान् ? गतिं च क: करोति राजहंसानाम् ? कः कुवलयानां गन्धं विनयं च कुलप्रसूतानां [करोति ] १ ॥