________________
जिनदत्तकथानकम्
ततो गृहद्वारे गत्वा धूर्तेन गृहमध्ये दृष्टिः सञ्चारिता । ततो जीर्णशीर्णवस्त्रावृतं गृहीणीद्वयं दृष्टं परं रतिरूपगर्वसर्वङ्कषम् । तद्गृहद्वारि द्वाः स्थादयो देहदौर्बल्यान्निर्गतस्नायुजाला वेताला इव दृष्टाः ।
ततस्तेनाऽचिन्ति
ही ! गृहसर्वस्वमिदं निरर्थकम्, भोगरहितत्वात् । ततस्तस्य दंष्ट्रा गलिता - यदहं गृहस्य स्वामी भवामि देवतादिसान्निध्यात्, सम्प्रत्यवसरोऽस्ति गृहधनिकाsभावात् ' ।
-
-
―
ततस्तेन धूर्तेन पुरबहिर्वर्त्ती सकलसप्रत्ययो यक्षस्त्रिभिर्लङ्घनैः प्रत्यक्षीकृतः स्माह किमिति लङ्घयसि ? धूर्तः स्माह मम हापाक श्रेष्ठिरूपं देहि । यक्षः स्माह- - नैवाहमीदृशमनुचितं करोमि, रेविट ! मम मन्दिरादुत्तिष्ट । इत्युक्त्वा यक्षो गतः । पुनरपि धूर्तेन चत्वारि लङ्घनानि कृतानि । ततः 'खल्वसौ मदुपेक्षितो मरिष्यति, मम स्थानं च निष्फलं भावी इति विचिन्त्य यक्षोऽपि भग्नः प्रोचे - भवदुक्तं रूपं भवतु, परं निर्गच्छ मम भवनात् ।
-
तथा
—
ततो यथेष्टे रूपे जाते कृतपारणो हापाकश्रेष्ठिगृहं गतः षिङ्गः । सर्वैर्द्वास्थैः कर्मकरैः प्रियाद्वयादिभिर्यथोचितं सम्मुखोत्थानादिप्रतिपत्तिस्तस्य कृता निर्विघ्नमस्खलितो गत्वा स गृहस्वामी भूत्वा निषण्णः । ततो वाणिपुत्राः कोशाध्यक्षादयस्तेन जल्पिताः - अहो ! श्रूयतां मया देशान्तरं गतेन मुनिमुखात् श्रुतमिदम्, यथा
66
—
• भोः !
दानं भोगस्तथा नाशः स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते न भुङ्क्ते च, तस्य तृतीया गतिर्भवति ॥११७॥
धन' राउलि, जीवीय जमह, राधउं पाखेलाहं ।
हुंतउ जेहिं न माणिउं, छारबचक्कउ तेह ॥ ११८ ॥
-
अन्यच्च श्रीमन्तमेकं मृतं च दृष्ट्वा तथा समुद्रमध्ये यानपात्र ब्रुडने प्राणान्तसङ्कटं सर्वक्षयं च ज्ञात्वाऽहं परमं निर्वेदं गतो दध्यौ – यद्यस्मिन् वारे कुशलेन गृहं गमिष्यामि तदा स्वस्य परस्यापि वाञ्छितं पूरयिष्यामि " । इति कपोलकल्तिं भाषित्वा तेन सर्वजनाः प्रत्यायिताः ।
1. गृहस्वामेरभावादित्यर्थः, धनिक = ' धणी' इति भाषायाम् ॥ 2. धनं राजकुले, जीवितं यमस्य, रन्धित पार्श्वस्थानां [दत्तं ] विद्यमानं यैर्न मानितं = भुक्तं भस्ममुष्टिः तेषाम् ॥