________________
विमलमतीवक्तव्ये हापाकश्रेष्ठ्यदाहरणम्
धम्मि न वेचइ रूयडउ, मीठउ ग्रास न खाइ ।
राउलि चोर पलेवणइ, धन पेखंतां जाइं ॥११४॥ दानं दूरेऽस्तु, कृपणस्य धनं भोजने वपुभोगेऽपि नायाति । यतः -
धनेऽपि सति भोजन प्रकृतिशोभनं नात्ति यो, न चारुतरमम्बरं परिदधाति भीतो व्ययात् । करोति कुसुमादिभिर्न तनुभोगमप्युत्तम, परस्य वितरत्यहो! कथमसौ धन तृष्णकः ? ॥११५॥
देशे देशे धनार्थं स भ्राम्यति, न गणयति रात्रि दिनं च । ____तस्य द्वे भार्ये रतिप्रीतितुल्ये महारूपवत्यौ स्तः, परमाजन्मगुप्तिगृहक्षिप्ते इव, बन्दिपतिते इव, महावस्थाप्राप्ते ते द्वे स्तः । तयोर्द्वयोर्न रम्यं खादनम् , न पानम् , न परिधानम् , नाच्छादनम् , नान्यदपि किञ्चित् संसारसुखं विद्यते । पुनरपि श्रेष्ठिगृहं किञ्चिद् वर्ण्यते, यथा -
यद्गेहे मुशलीव मूषकवधूमूषीव मार्जारिका, मार्जारीव शुनी, शुनीव गृहिणी, वाच्यः किमन्यो जनः । क्षुत्क्षामक्लमपूर्णमाननयनैः स्वोन्निद्रमुर्वीगतैः,
कर्तुं वाग्व्ययमक्षमापि जननी डिम्भैः समालोक्यते ॥११६॥ एकदा श्रेष्ठी हापाको वित्तोपार्जनाय बलीवर्दावली गृहीत्वा विदेशं गतः ।
अत्रान्तरे कोऽपि धूर्त्तवतंसो भ्रमन् तस्य गृहान्तिके समेतः । स ऊर्ध्वमूखीभूय सर्व सदनं विलोक्य कमपि पुरुषं पप्रच्छ – कस्येदं सर्वजनकृतस्पृहं धवलगृहम् ? सोऽप्याह - " तस्येदं गृहं यस्य कृपणस्य प्रातर्नामापि न गृह्यते, 'तर्हि किमीदृशं सुन्दरतरं गृहं बहुद्रव्यव्ययेन कारयितुं श्रेष्ठी शशाक' इति चित्ते त्वया शङ्का न कार्या, यतः पूर्वजकारित
चैतत् , अस्मिन् वंशवज्राकरेऽसावेव कर्करोऽजनि, अत्र सत्कुलेञ्जवाटकेऽयमेव नीरसो नलतृणविशेषोऽभवत् "। ___ 1. [ यः ] धर्मे न व्ययति रूप्यकम् , मिष्टं ग्रास न खादति, [ तस्य ] राजकुले चौरे प्रदीपने = अग्नौ धन पश्यतो याति ॥