________________
जिनदत्तकृतं चम्पापुर्या' स्वपत्नीविद्याधरीपरिहरणम् अथ निर्ध्वनिनिशायां जिनदत्तादेशाद् विमानं चम्पोद्यानं जगाम । तत्र रात्रिशेषे पूर्व क्षणं कुमारः सुष्वाप । ततो जिनदत्तादेशाद् राजपुत्री सुप्ता । तदाऽजनीविद्यया स्वयमदृश्यीभूय प्रभातं यावत् स स्थितः श्वापदादिरक्षार्थम् ।
ततः कौतुकेन रूपपरावर्तविद्यया वामनरूपं विधाय नगरमध्ये गत्वाऽनेकगीत-नृत्यविनोदैर्लोकान् रञ्जयति । लोकाल्लब्धं सुवर्ण-दुकूलादि तदैव याचकेभ्यो ददाति । लोकमुखेन ज्ञात्वा राज्ञा स वामन आकारितः । तत्रापि राजसभायां स्वकलाप्रकटनेन सर्व रञ्जितमस्ति ।
[विज्जाहर्याः परिदेवनम् ] इतश्च सा विज्जाहरी प्रातर्जागरिता पतिं न पश्यति ततः पूत्कारान् करोति - " आः ! कथमहं पापिनी निद्रां कृतवती ? एषा निद्रा सर्वदुःखभाजनम् , यतः - .
निद्रा मूलमनर्थानां, निद्रा श्रेयोविघातिनी ।
अचैतन्यकरी निद्रा, निद्रा संयोगघातिनी ॥१०६॥" इत्यादि वदन्ती मुहुर्मुहुर्मूर्च्छति, पुनर्वनवातेन स्वस्थीभवति, भणति च – “हा नाथ ! मामेकाकिनी मुक्त्वा क्व गतोऽसि ? रे विधे! त्वया वल्लभवियोगः कथं विहितः ?, यदाहुः -
1रे विहि! मा मा सज्जसि, सज्जसि मा देहि माणुस जम्मं ।
अह जम्मं मा पिम्मं, अह पिम्मं मा वियोगं च ॥१०७॥ तथा -
हीयडा' झरि म झरि. झरंतह नयणह हाणि ।
कवण कहेसि सज्जणहं, रोयंतह कंठह प्राणि ॥१०८॥ अहो ! यावद् जीवानां स्तोकोऽपि स्नेहो भवति तावन्निवृतिः कुतः स्यात् ? यदुक्तम् -
"ताव च्चिय होइ सुहं जाव न की रेइ पियजणो को वि ।
पियसंगो जेण कओ दुक्खाण समप्पिओ अप्पा ॥१०९॥ 1. रे विधे! मा मा सृज, [ यदि] सृजसि मा देहि मानुष्यं जन्म, अथ जन्म [ ददासि ] मा प्रेम, अथ प्रेम [ ददासि ] मा वियोगं च ॥ 2. हृदय ! विषीद, मा [वा ] विषीद, विषीदतो नयनयोः हानिः [भवति ], कः कथयिष्यति सज्जनं 'रुदतः कण्ठे प्राणान् ' । 3. तावत् खलु भवति सुख यावद् न क्रियते प्रियजनः कोऽपि । प्रियसङ्गो येन कृतः [ तेन ] दुःखेभ्यः समर्पित आत्मा । ..J4 ...