________________
जिनदत्तकथानकम् [जिनदत्तकृतं चम्पानगर्या विज्जाहरीपत्नीपरिहरणं वामनरूपविकुर्वणं च ]
अथ कस्मिन्नप्यवसरे विज्जाहरीप्रियया समं सारिपाशै रममाणस्य मिथः प्रीतिसंलापं कुर्वतः कुमारस्य स्नेहादिगुणतुल्यत्वेन पूर्व चम्पापुरी मुक्ता विमलमती स्मृतिमागता । ततस्तेन सदुःखेन चिन्तितम् – “सा मद्वियोगेन कथं जीवितं धारयिष्यति ? रे दैव ! त्वया कस्यापि वल्लभजनस्य भवे वियोगदुःखं न दातव्यम् , यतः -
कान्तावियोगः स्वजनापमानं, ऋणस्य शेषं कुनृपस्य सेवा ।
दरिद्रभावे विमुखं च मित्रं, विनाऽग्निना पञ्च दहन्ति सद्यः ॥१०३॥ - तथा केनाप्येवमुक्तम् , यथा -
'जह हुज्ज मज्झ जम्मो, असारसंसारसायरुच्छंगे ।
ता सरसकव्व-पियमाणुसस्स मा हुज्ज विच्छोहो ॥१०४॥" तदा कन्यया प्रोक्तम् - नाथ ! कथमद्य खिद्यसे ? किं क्वापि ममापि विनयच्युतिदृष्टा ? ततः कुमारेण 'नहि नहि' इत्युक्ते कन्या प्राह - तत् किं खेदकारणम् ? सोऽप्याह - शृणु प्रिये ! एकस्या कान्तायास्तवेव वल्लभाया विनयादिगुणाः स्मृताः, ततः खेदोऽस्ति । 'स्वामिन् ! ममापि तुल्या या स्त्री सा किं नाम्नी ? क्व चास्ति ? इति निर्बन्धेन पृष्टे चम्पास्थितविमलमत्याः संबन्धः प्रोक्तः ।
""वरि ते पंखीया भला, माणुसपाहिं बप्पडा ।
ऊडी जाई तिहां, जिहां मन होइ आपणुं ॥१०५॥ यद्येवं तन्मनश्चिन्तितविमाने सति कथं खेदः ?” इति चिन्तितं जिनदत्तेन ।
_ ततश्चम्पापुरी गन्तुकामेन तेन प्रभाते राजा मुत्कलापितः । राजा वदति – क्व गामी ? तेनोक्तम् – स्वदेशस्वजनमिलनाय यास्यामि । ततो भशं राज्ञा सस्नेहतयाऽसौ स्थापितोऽपि न स्थितः, तदा राज्ञा कथमप्यतिष्ठते तस्मै बहुधनं दापितं परं न गृहीतम् , यत्र तत्र सर्वसमृद्धिप्राप्तेः ।
ततो विज्जाहरी सर्व कुटुम्ब मुत्कलाप्य तदादेशात् स्वकीय सर्व भूषणं गृहीत्वा मनश्चिन्तितं च विमानमारूढा ।
1. 1. यदि भवेद् मम जन्म असारसंसारसागरोत्सले तर्हि सरसकाव्य-प्रियमनुष्ययोः मा भवतु विरहः ॥ 2. वर ते पक्षिणः शोभनाः मनुष्यपक्षे मनुष्यापेक्षया दीनाः [ये] उडुयित्वा यान्ति तत्र यत्र मनो भवति आत्मनः॥