________________
जिनदत्त - श्रीमत्योः पाणिग्रहणम्
तया मम भवेऽस्मिन्नयमेव वरः । ततः राजपुत्र्योक्तम् - मां वृणु । तेनोक्तम् त्पितुरादेशं विना नैव घटते । सा चाह - नीतिशास्त्रन्यायादेवं घटते, यतः
सोऽप्याह चेत्थं दृश्यते, यथा
-
-
स्वयं वरयते कन्या, माता वित्तं, पिता कुलम् ।
बान्धवा धनमिच्छन्ति मिष्टान्नमपरे जनाः ॥५६॥
सत्यमिदम्, परमनूढालक्षणं चेदम्, अलङ्कारशास्त्रे स्वकीयनायिकालक्षणं
-
देवता - गुरुसाक्ष्येण, स्वीकृता स्वीयनायिका ।
क्षमावत्यतिगम्भीरप्रकृतिः सच्चरित्रभृत् ॥५७॥
तयोरित्थं मिथः संलापे जायमाने मातङ्गः शग्रहणाय प्रातरायातः । तौ शारिपारी रममाणौ च दृष्ट्वा तेन राज्ञे कथितम् - देव ! वर्ध्यसे, यदद्य सयामिका पुत्री विजयते । इत्याकर्ण्य नृपतिरुधुषिताभ्युष्टिकोटिरोमो तस्य पारितोषिके सुवर्णस्य जिह्वां ददौ ।
-
त्व
-
ततः सपत्नीकः सपरिच्छदः पार्थिवः कुमारीगृहे गतः । तस्य यथोचितं प्रतिपतिश्च जाता । ततः सिंहासनमासीनो नृपः कुमारीमुत्सङ्गे कृत्वा गाढमालिङ्गय कुमारान्निशावृत्तान्तं श्रुत्वा सर्प पूर्वभवद्वेषेण वैरायमाणं कमपि व्यन्तरं निश्चित्य प्रधानान् प्रोचे • अस्य महोपकारिणः कुमारस्य किमुचितं क्रियते ? तैर्गदितम् - • अस्य यत् क्रियते तत् स्तोकम्, परं पुत्री दियताम् । ततो राज्ञा सुलग्ने महामहेन स श्रीमत्या सह परिणायितः । ततो हस्तमोक्षणावसरे गजाश्व - दुकूलादि भूरि दानं दत्तम् । पुंसां सर्वत्र पुण्यान्यचिन्त्यसुखकारीणि स्युः, यदुक्तम्
यदाशाया न विषयं दुर्घटं च जनेऽपि यत् ।
तदप्यारोपयत्याशु, प्राक्पुण्यं प्राणिनां करे ॥ ५८॥
ततः श्रीमत्या राज्ञा च सह जिनदत्तो विद्वद्गोष्ठ्या सस्नेहं सुखेन कियन्तं कालं गमयति ।
—
[ श्रीमतीसहितस्य जिनदत्तस्य औदत्तश्रेष्ठिना सह स्वदेशागमन प्रस्थानम् ]
अत्रान्तरे औदत्तश्रेष्ठी सर्व क्रय-विक्रयादि कृत्वा कुमारान्तिकमायातः वत्स ! त्वं किं कर्ताऽसि ? अहं स्वपुरं प्रति यामि । स प्राह – आम तात ! अहमप्यायास्यामि, क्षणं प्रतीक्षस्व यथा राजानं मुत्कलयामि । ततस्तदादेशाद् नृपान्तिकं गत्वोचे - राजन् ! अहं स्वेदेशे यामि, मामनुमन्यस्व । राजा ब्रूते – वत्स ! त्वादृशां को विदेशः ?, यतः
—