________________
जिनदत्तकथानकम् उद्यमे नास्ति दारिद्रयं, जपतो नास्ति पातकम् ।
मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥५२॥ लोकेऽप्येवमस्ति – 'यः सुप्तः स भूत इव, यो जागर्ति स मार्गयति' । 'अत्र किं किं भविष्यति ?' इति चिन्तयता तेन दृष्टम् – पूर्व कुमारीमुखाद् धूम्रकलिका, पश्चात् कालदारुणो महाकायो रक्ताक्ष उत्फणः फणी निर्गतः। ततः फूत्कारान् मुञ्चन् शय्योपरि गत्वा रोषेण मृतकं दृष्ट्वा यावत् पश्चादागत्य नागः कन्यामुखं प्रविशति तावद् जिनदत्तेन हक्कितः - रे दुष्ट ! चौर्यवृत्त्या मनुष्यं दष्ट्वा क्व यास्यसि ? ततः सर्पः सदर्पस्तं प्रति धावितः । जिनदत्तेन तु पुच्छे धृत्वोर्वीकृत्य पुनः पुनरन्दोलितः । ततः सोऽधोमुखत्वेन गलगतान्त्रत्वादबलोऽभवत् । अहो ! साहसवतां को न हि वश्यः स्यात् , यदुक्तम् -
उद्यमः साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥५३।। साहण' सउण न चंदबल न वि जोयइ धण ऋद्धि ।
इक्कलउं लक्खहं भिडइ, जिहां साहस तिहां सिद्धि ।।५४।। ततो जिनदत्तेन सदयहृदयेन चिन्तितम् – “हहा ! कथमेनं जीवं कदर्थयामि ? यद्यस्य पादौ स्यातां तदाऽयं पलायते, अथास्य वाचा स्यात् तदा 'मां मुञ्च' इत्येवं वक्तुं शक्नोति, अथ हस्तौ स्यातां तदा तौ स्वस्यान्तरे ध्रियते । " इति विचिन्त्य स सर्पः केहलीमध्ये क्षिप्तः । कुमारेण द्वयं कृतम् – सुस्थममारिश्च । तथा लोकस्याभाणको सत्यापितो यथा - 'न सपों म्रियते, न यष्टिर्भज्यते' इति । अहो ! सज्जनानामीदृशमेव लक्षणं
स्यात्, यतः -
येषां मनांसि करुणारसरञ्जितानि, येषां वांसि परदोषविवर्जितानि ।
येषां धनानि सकलार्थिजनाश्रितानि, तेषां कृते वहति कूर्मपतिर्धरित्रीम् ॥५५॥
अथ स कुमारः सुस्थो जातश्चौरनिग्रहात् । ततः कुमारी प्रबुद्धा कुमारं प्रति वक्तिहे सुभग ! महच्चित्रकरमिदं द्वयम् – ममोदरे महती निवृतिर्गतशल्यसूचिनी, तव जीवितं मदीयभाग्यसूचकं चेति, त्वं किमपि कारणं वेत्सि । ततः सोऽपि सर्व रात्रिवृत्तान्तमूचे । हृष्टा राजपुत्री दध्यौ – जयन्ति मम पुण्यानि येनेदं नररत्नं न विनष्टम् । ततः प्रतिज्ञातं ___ 1. साधनानि शकुनानि न चन्द्रबलम् , नापि पश्यति धनं ऋद्धिम्, एको लक्षैः [ सह ] युध्यते, यत्र साहसं तत्र सिद्धिः ॥ 2. केहली= (१) लघुकूप, ‘कियाळी' इति भाषायाम् ॥ 3. आभाणक-किंवदन्ती॥