________________
जिनदत्तस्य संसारसुखविरागः [ पित्रादेरुपदेशानन्तरमपि जिनदत्तस्य धर्मप्रवृत्तिस्थैर्यम् ] पुनः पितृवन्मोहवशान्मात्रा सर्वकुटुम्बेन मिौरन्यैरपि स्वजनपरिजनैर्यथाई शिक्षितोऽपि स विरक्तो निर्विकारः कुमारः संसारसुखप्रवृत्तिं न चकार कदापि । पुनर्लोकाः केऽपि चैवं शिक्षयन्ति यथा - "भोः कुमार ! कदाग्रहो न क्रियते यावती भूमिर्गृह्यते तावती मुच्यते तथा द्विहस्ताभ्यां कार्य कार्यमिति, शिक्षादायिनायिकाजडपुत्रवत् तवापि दन्तपातः कदाग्रहेण भावी, तथा धर्मज्ञेनापि पितरौ मान्यौ, यतः -
आस्तन्यपानाजननी पशूनामादारलाभाच्च नराधमानाम् ।
आगेड कमग तु मध्यमानामाजीवितात् तीर्थमिवोत्तमानाम् ॥२०॥" इत्यादिका या शिक्षा तैर्दत्ता सा सर्वाऽपि तस्य भृतवटोपरि व्यूढा, परं तया संसारशिक्षया तस्य कुमारस्य मनसि प्रत्युत हास्य जातम् - "अहो ! वृथैव लोकैः स्वात्मा स्वशरीरादि का वि । दण्ड्यते, अतोऽनर्थदण्डोऽयम्, अतो धर्मत्यैव शिक्षा दातव्या यतः
उबएसमंतरेण' वि कामत्थेसु कुसलो सय लोओ ।
धम्मोवगहण सिक्खं विणा न, ता तीइ जइयव्वं ॥२१॥ तथा श्रोतुररुचिसम्भवेऽपि हितशिक्षादानं घटते, यदुक्तम् -
परो रुष्यतु वा मा वा विषवत् प्रतिभातु वा ।
भाषितव्या हिता भाषा, स्वपक्षगुणकारिणी ॥२२॥ एवं विचिन्त्य स पुण्यात्मा विशेषतो धर्मकर्म करोति । [पितृसङ्केतितद्यूतकारैः सह युतरमणे जिनदत्तस्यैकादशकोटिद्रव्यहानिः]
अन्यदा अनुत्पन्नापरोपायेन पित्रा द्यूतकारवर्गः सङ्केतितः यथा - अयं मत्पुत्रो निजसमुदायान्तर्गृह्यताम् । तैर्दृष्टैः ‘भवत्वेवम्' इतिष्ठवचोऽङ्गीकृतम् । एकस्मिन् दिने स जिनदत्त: सौवर्णसुखासनारूढो जिनालय गच्छंश्चतुष्पयमध्ये द्यूतकारविलग्योत्तारितो भाषितश्चस्वमद्य द्यूते रमत्व । इति श्रुत्वा द्रव्येण होडवाहबूतनियम परिग्रहप्रमाणमध्ये स्मृत्वा च तद्वचः कर्णे चित्तेऽपि न धत्ते स्म कुमारः । तथापि प्रसह्य मनसा बिनापि तैयूँतकारैस्तत्प्रवृत्ति कारितः । ततो धूतस्तैः पूर्व कन्यपि लक्षाः स जापितः , पश्चादेकादश द्रव्यकोटीारितः । एवं स रममाणोऽपराह्ने सुकुमारतया क्लान्त उत्तिष्ठन् हारितद्रव्यं तैर्याचितः । ततस्तेन द्रव्यार्पणार्थं
1. उपदेशमन्तरेणापि कामार्थयोः वुशलः स्वयं लोकः । धर्मोपग्रहणं शिक्षा विना न, तस्मात् तस्यांशिक्षायां पतितव्यम् ॥ 2. जापितः = जयं प्रापित.॥