SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् धूर्तकरेण पत्र्यां प्रेषितायां भाण्डागारिको ज्ञातवृत्तान्तोऽसद्वययत्वात् तन्नायच्छत्, परं ते धूर्ता निर्धाटिताः । ततः केनापि विमलमत्यै तद्वन्यतिकरे प्रोक्ते सा लज्जमाना श्वश्रू-श्वशुरयोरकथयन्ती भर्तुर्भक्त्या स्वगवालयात्' कृष्ट्वा पञ्चदशकोटीप्रमाणं कञ्चुक धूर्तानां कृते प्रेषीत् । तैस्तमड्डाणकं' कापि हट्टे मुक्त्वा लभ्यद्रव्य गृहीत्वा स मुक्तः । ततः कुमारः स्वगृहं गतो लज्जमानो दथ्यौ-"हा ! मया किं कृतम् ? यतः मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा । न कल्पमपि कृष्णेन लोकद्वयविरोधिना ॥२३॥ तथा... रूव पतिट्ठा माणो लज्जा धम्मो कुलक्कमो महिमा । अत्थो माया महिला, हारिज्जइ जूयरमणेण ॥२४॥ अथ सङ्घलोकस्य कथं स्वमुख दर्शयिष्यामि?" इति । अभुजानो जनकेनाश्वासितःवत्स ! का लक्ष्मीः ? यदि हारिता तदा हारिताऽभूत्, आत्मीये गृहे पुराऽपि द्रव्यस्येयत्ता, पुनर्बहवी भविष्यति, ततो मा खेदं कुरु, शीघ्रमुत्तिष्ठ, भुङ्क्व । इत्युक्त्वा भोजयित्वा जनको गतः [हारितद्रव्यलज्जया छलेन विमलमति पितृगृहे मुक्त्वा जिनदत्तस्य प्रच्छन्नं विदेशगमनम्] अथ जिनदत्तेन चिन्तितम्– ' अस्य नगरस्य मध्ये मया न स्थेयम्, कमप्युपाय कृत्वा विदेशं यामि, ममेह माने गते स्थितिरनुचिता, यतः-- माणु* पइट्ठइ जइ न तणु, तो देसडा चइज्ज । मा दुज्जणकरपल्लविहिं दंसिज्जंतु भमिज्ज ॥२५।। वसेन्मानाधिकं स्थानं, मानहीन विवर्जयेत् । भग्नमानं सुरैः सार्ध विमानमपि सन्त्यजेत् ॥२६॥ . तथा-- वरं प्राणपरित्यागो, मा मानपरिखण्डना । मृत्युश्च क्षणिक दुःख मानभङ्गो दिने दिने ॥२७॥ 1. स्वसङ्ग्रहात् । गवालय= गवाळो' इति भाषायाम् ॥ 2. 'अडाणु =गिरो' इति भाषायाम् ॥ 3. रूपं प्रतिष्ठा मानः लज्जा धर्मः कुलक्रमः महिमा अर्थो माया महिला हार्यते द्यूतरमणेन ॥ 4, मानः प्रतिष्ठति यदि न तनुः = अल्पः, ततो देशं त्यजेत्; मा दुर्जनकरपल्लवैः दर्शयन् भ्रमेव ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy