________________
जिनदत्तकथानकम् अन्यदा श्रेष्ठिना समाय पुत्रो भाषितः - "वत्स ! यद्यपि कश्चिदनिर्वाही देवगुरुप्रसादेनात्मीये न विद्यते, यतः कर्म करा वणिक्पुत्रा बहवः सन्ति त एव सर्व कुर्वन्तः सन्ति, तथापि त्वदुचितानि कार्याणि त्वयैव विधेयानि, यतः -
दाने तपसि मृत्यौ च भोजने नित्यकर्मणि ।
विद्याभ्यासे सुतोत्पत्तौ परहस्तो न विद्यते ॥ १४ ॥ तथा तव स्थाने त्वमेवासि, नान्यः, त्वं चैकमतिः, गृहस्थस्य तु त्रिवोऽपि तुल्यः स्यात्, शास्त्रेऽप्येवमस्ति -
अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयेत् ॥ १५ ॥
अन्यच्च
यस्य त्रिवर्गशून्यस्य दिनान्यायान्ति यान्ति च ।
स · लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १६ ॥" स कुमार एवमाकर्ण्य स्त्रमनसि चिन्तितवानिति -- "तात इयदेव वेत्ति. न पुनः शास्त्रान्तररहस्यम्, तच्चेदम् -
'दहइ गोसीस सिरिखंड छारक्कए, छगलगहणटू एरावणं विक्कए । कप्पतरु तोडि सो कयर वद्धारए, जुजिविसएहिं मणुयत्तणं हारए ।॥ १७ ॥
तथा
अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमः हाय प्रवहणं,
स मुख्यो मूर्खाणामुपलमुपलब्धु प्रयतते ॥ १८ ॥ तातेन यदुक्तं 'त्रिवर्गः साध्यः' तत्रापि धर्म एव सारः, यतः
त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य ।
तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ । १९॥" ___ 1. दहति गोशीर्ष श्रीखण्डं क्षारकृते, छगलग्रहणार्थ औरावणं विक्रीणाति । कल्पतरूं त्रोटयित्वा स बकर पद्धं पति, पृथग्विषयैः मनुष्यत्वं हारयति ।