________________
कथानकप्रारम्भ: जिनदत्त-विमलमत्योः पाणिग्रहण च
तथा
गर्व नोद्वहते, न निन्दति परं, नो भाषते निष्ठुरमुक्तः केनचिदप्रियाणि सहते, क्रोधं न चालम्बते । स्वश्लाघां न करोत्यणु परगुणं मेरूपमं यः सृजेद्, दोषांश्छादयते, स्वयं न कुरुते ह्येतत् सतां चेष्टितम् ॥१०॥
मनसि वचसि काये पुण्यपीयूषपूर्णाः, त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं, .
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥११॥ [जिनदत्त-विमलमत्योः पाणिग्रहणं जिनदत्तस्य विषयविरागश्च ]
अन्यदा स कुमारो यौवनोदये चम्पापुर्यां विमलश्रेष्ठिपुत्रीं विमलवती कन्यां महामहोत्सवेन परिणायितः । तथापि स पितुः प्रसादेन निश्चिन्तः साधुसेवां विधत्ते, स्वाध्यायं पठति च शनैः शनैः श्रमणपरिचयेन विषयपराङ्मुखो जातः, यदाह
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताऽऽकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिसम्पुटगत तज्जायते मौक्तिकं,
प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१२॥ तथा च
उत्तमजणसंसग्गी' सीलदरिद पि कुणइ सीलड्ढं ।
जह मेरुगिरिविलग्गं तणं पि कणगत्तणमुवेइ ॥१३॥ अन्यदा तज्जनन्या श्रेष्ठिनोऽयं प्रोक्तम्- 'पुत्रोऽयं गृहचिन्तां न विधते'। तेनोक्तम् 'आवयोः प्रसादेन सम्प्रति करोतु धर्मम्' । तया प्रोक्तम् – 'एक एवावयोः पुत्रः परिणीतश्च तथापि निश्चिन्तः, तत् कथमित्यमात्मीयं गृहं निर्वहिण्यति ?' । श्रेष्ठिनोक्तम्-'सम्प्रत्येव तिष्ठतु पुनरग्रे ज्ञास्यते' । कियत्स्वपि. दिनेषु गतेषु पुनः श्रेष्ठिन्या कथितम्- 'यूयं न जानीथ, पुत्रोऽसौ संसारसुखपराङ्मुखोऽस्ति, कस्तु स्वकीया द्रव्यकोटीभॊक्ष्यते ? ' । तयेत्थं प्रेरितः श्रेष्ठो चिन्तयति-'सत्यमेवेदम्, करोमि कमप्युपायौं यथाऽसौ गृहादिचिन्तां करोति' ।
1. उत्तमजनसंसर्गः शीलदरिद्रमपि करोति शीलाढयम् । यथा मेरुगिरिविलग्नं तृणमपि कनकत्वमुपैति ॥