________________
जिनदत्तकथानकम्
[वसन्तपुरराशोऽरिमर्दनस्य वर्णनम्] तत्राऽरिमर्दनो नाम राजा, यः सौम्यो दाता विशेषज्ञः कृतज्ञश्चास्ति, यतः
त्यजेत् स्वामिनमत्युग्रमत्युग्रात् कृपणं त्यजेत् ।
कृपणादविशेषज्ञ, तस्माच्च कृतनाशनम्' ॥४॥ अन्यच्च यो गम्भीरप्रकृतिः पिशुनवचनप्रेरितोऽपि कर्णदुर्बलो न जायते, यतः
घटवत् परिपूर्णोऽपि विदग्धो रागवानपि । ग्रहीतुं शक्यते नैव पार्थिवः कर्णदुर्बलः ॥५॥
[जीवदेवश्रेष्ठिवर्णनम् ] तस्य पुरस्य मध्ये नगरमुख्यः प्रसिद्धो जैनो बहुधनकोटीश्वरो जीवदेवश्रेष्ठी ।
सत्वेऽपि र-नकोटीनां तस्य रत्नत्रयी परम् । आसीददूषण साधुकोटीरस्य' विभूषणम् ॥६॥ मनो-वाक्-कायचेष्टासु धर्मस्तस्यावतिष्ठते । अर्थो वचसि कायेऽपि कामः काये कदाचन ॥७॥
__[जिनश्रीश्रेष्ठिनीवर्णनम्] तत्प्रिया जिनश्री नाम पतिमार्गानुगामिनी गृहस्वामिनी गजगामिनी तथा सतीत्वादिगुणैः सा निजवंशतिलकभूता, यतः -
सतीत्वेन महत्त्वेन वृत्तेन विनयेन च । विवेकेन स्त्रियः काश्चिद् भूषयन्ति धरातलम् ॥८॥
[जीवदेवश्रेष्ठिपुत्रजिनदत्तवर्णनम्] तत्पुत्रो भाग्यसौभाग्यनिधिः सदा सदाचारो जितेन्द्रियः सुशीलो जिनदत्तो नाम कुमारः। तदीयमौदार्यादिगुणवृन्दमेकया जिह्वया वर्णयितुं न केनापि शक्यते, तथापि केऽपि द्वित्राः पवित्रास्तद्गुणा वर्णिकामात्रा अत्राभिधीयन्ते, यथा
परपरिवादे मूकः परनारीवक्त्रवीक्षणेष्वन्धः ।
पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥९॥ 1. कृतघ्नम् ॥ 2. श्रेष्ठिमुख्यस्य ॥