________________
बमोऽस्तु अमाय भगवते महावीराय
श्रीगुणासमुद्रशिविरचितं जिनदत्तकथानकम् ॥
ॐ नमः सिद्धम् ॥
[मङ्गलम् ] श्रीशारदाबासवसेव्यमान आबालकालाद् दलिताभिमानः ।
गुणैरसङ्ख्यैः परिर्द्धमानः सतां श्रिये श्रीजिनवर्धमानः ॥१॥ धर्मो जयति, धर्मफलानि किञ्चिदुच्यन्ते, यत :
धर्मादवाप्यते राज्य, धर्मात्, सुखफलोदयः ।
धर्मादवाप्यते सिद्धिस्तस्माद् धर्म समाचर ॥१॥ तथा अमूर्तोऽमि, धर्मा, बाह्यलक्षणैर्मीयते, यतः -
धरान्तःस्थं तहोमसमुच्छ्रयेणानुमीयते ।
तथा पूर्वकृतो धर्मोऽप्यनुमीयेत. सम्पदा ॥२॥ अथ भो भो भव्याः ! श्रुणुत जिनदत्तकथानकात् पुण्यफलानि, यथा
[वसन्तमुरवर्णनम्] । भरतखण्डमण्डनं वसन्तपुरं नाम नगरम् । किं विशिष्टम् ?
यस्मिन् देवगृहेषु दण्ट्पटना,स्नेहक्षयो दीपके, 'अन्तर्जाङ्गुलिकालय द्विरसनाः; खड्गेषु मुदिता । बादस्तर्कविचारणासु, विपणीश्रेणीषु मानस्थिति----
बन्धः कुन्तलवल्लरीषु, सततं, लोकेषु नो दृश्यते ॥३॥ ____ 1. गारुडिकगृहमध्ये ॥