________________
जिनदत्तकथानकम्
अहो ! भाग्यवतां स्पृहा प्राप्ती युग्मजाते इव स्याताम्, यथा
भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः ।
फलन्ति यत् पुनस्तेऽपि, तत् सुवर्णस्य सौरभम् ॥ २९१॥”
७४
ततः श्री अरिमर्दनस्तस्मै वनपालायाऽऽजन्मनिर्वाहयोग्यं प्रीतिदानं दत्त्वा प्रचुरपौरपरिवृतो नवीननृपतिसहितो गुरुपादपद्मपवित्रितं पुरपरिसरं प्राप । तत्र छत्रचामरादि मुक्त्वा पञ्चाभिगमपूर्व प्रदक्षिणां दत्त्वा गुरुस्तुतिमकरोत् यथा
"
-
( 1
अज्जं चिय सुपभायं, अज्जं चिय सव्वमिच्छियं जायं । मुक्ख पुरसत्थवाहो जं सुगुरु ! तुमं मए दिट्ठो ॥२९२॥
2
" धन्न ते गामाssगर-नगर जहिं सहगुरु विहरति । देसण किरणिहिं भवियणह मिच्छातिमिर हरंति ॥ २९३॥
अज्ज कयत्थो जम्मो, अज्ज कयत्थं च जीवियं मज्झ । जेण तुह दंसणामयरसेण सित्ताई गत्ताई ॥२९४॥ इत्यादि भणित्वा राजा प्रजायुक्तो मति श्रुतज्ञानभूरीणां श्रीधर्मघोषसूरीणां चरणारविन्दं वन्दित्वा यथोचितप्रदेशे निषीदति स्म ।
664
अथ श्रीगुरवस्तत्कृपया धर्मदेशनां ददते स्म, यथा - - अहो ! प्रबलप्रमादपूरपतितः प्रायः प्राणी सर्वोऽप्येवं कल्पनां करोति यद् अहं केनाप्यसाध्यं साधयिध्ये, केनाप्यकृतं करिष्ये, वर्षान्तरे प्रौढं गृहं भव्यहट्टं वा मण्डयिष्ये, दीपाली प्रभाते सुतस्य सुताया वा विवाहं विधास्ये, अमुकामुक कार्याण्यद्य कल्ये पक्षाद्यन्तरे वा निष्पादयिष्ये इत्याद्यनेक सङ्कल्पविकल्पान् विवेकविकलः कल्पयति, देह - गेह - कुटुम्बादि सुख-दुःखतप्ति च रचयति । पुनरेवं वराको जीवः कदापि भावनां न भावयति, यथा
22
संज्झ भरागसुरचावविब्भमे घडण - विहडणसरूवे । विवाइवत्थुनिवहे कि मुज्झसि जीव ! जाणतो ॥ २९५॥
1. अद्य खलु सुप्रभातम् अद्य खलु सर्वमिष्टं जातम्, मोक्षपुरसार्थत्राहो यद् सुगुरो ! खं मया दृष्टः ॥ 2. धन्यानि तानि ग्रामाss कर - नगराणि यत्र सद्गुरवः विहरन्ति, देशनाकिरणैः भव्यजनानां मिथ्यातिमिरं हरन्ति ॥ 3. अद्य कृतार्थं जन्म, अद्य कृतार्थं च जीवितं मम येन तत्र दर्शनामृतरसेन सिक्तानि गात्राणि ॥ 4. सन्ध्याभ्रराग - सुरचापविभ्रमे घटन विघटनस्वरूपे विभवादिवस्तुनिवहे किं मुह्यसि जीव ! जानन् ॥