________________
A 188
A189
A 190
A 191
83
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer.
कुर्वन्ति । त्वं चाश्रयणीयगुणोपेतः चिप्रकारी । तन्मा विलम्बस्व । यत्कारणम् । भवाञ्छक्तियुक्तः । भवाननभिज्ञः । तदाशु गच्छ । हिरण्यमानय । सो ऽप्ययत्नेन 3 पाशच्छेदनसमर्थ इति ।
तस्मिन्गते चित्राङ्गो ऽचिन्तयत् ।
सर्वः सर्वे न जानाति सर्वज्ञो नास्ति कश्चन ।
• नैकच च वित्तष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ १४३ ॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ १४४ ॥
9 न सर्ववित्कश्चिदिहास्ति लोके
नात्यन्तमूर्खो भुवि कश्चिदस्ति । ज्ञानेन नीचोत्तममध्यमेन
12 यो येन जानाति स तेन विद्वान् ॥ १४५ ॥
ईदृशस्य मनीषिणो नास्ति पाशच्छेदने शक्तिः । एवं चिन्तयन्भयतरलदृग्यावदवस्थितः । तावलघुपतनकेन चिप्रमेव हिरण्य आनीतः । तदवस्थं चित्राङ्गं दृष्ट्वाधृति15 परीतो हिरण्यस्तमाह । वयस्य । ज्ञानचक्षुरसि । कथमिमामापदं प्राप्त इति । सो ऽब्रवीत् । वयस्य । किमनेन पृष्टेन । बलवद्दैवम् । साधु चेदमुच्यते ।
किं शक्यं शुभमतिनापि तत्र कर्तुं
18 यत्रासौ व्यसनमहोदधिः कृतान्तः । रात्री वा दिवसवरे ऽपि वा समग्रे
यो ऽदृश्य: प्रहरति तस्य को विरोधी ॥ १४६ ॥
21 अपि च ।
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति विदुषामपि ॥ १४७ ॥ 24 तथा चोक्तं भगवता वेदव्यासेन ।
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।
भवन्ति भवकाले ऽपि विपद्यन्ते विपर्यये ॥ १४८ ॥
I
27 तत् । साधो । अनभिज्ञो ऽसि नियतिचेष्टितस्य । छिन्धि पाशमिमम् । यावदसी लुब्धकः क्रूरकर्मा नायातीति । एवमुक्तो हिरण्यो ऽब्रवीत् । भद्र मा भैषीः । वर्तते मयि पार्श्वस्थे लुब्धकात्कश्चिदपायः । किंतु कौतुकात्पृच्छामि नित्यं चकित30 चार्यसि । कथं छलितः । स आह । यद्यवश्यं मया व्याख्यातव्यम् । तच्छ्रयताम् । अहमनुभूतबन्धनोऽपि पुनरधुना विधिवशाद्वद्धः । सो ऽब्रवीत् । कथमनुभूतबन्धन: पूर्व भवान् । असावब्रवीत् ।