SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 84 ॥ कथा ५ ॥ अस्ति ' अहं कदाचिद्यमुनाकच्छे शालिग्राममध्ये प्रियकमृग्या I * * मुत्पन्नः । वयं शङ्खातयः । तथा च । चमूरः कदली कन्दली प्रियक एणक एते मृगयोनयः स्तुताः पञ्चैव । मातृदुग्धप्रसादेन द्वे गती जानन्ति । ऊर्ध्वा ' आञ्जसी चेति । एते न लुब्धकैः प्राप्यन्ते । प्रियकजातीयो ऽहं मनुष्यप्रियश्चिरेणाक्षिणी निमीलयामि । तथा सति मे माता यदा गता । तदाहं लुब्धकैः पोतक एव गृहीतः । स्त्रीक्षीरेण विवर्धितो यावत्तद्गृहे निवसामि । तावन्मे माता स्वयूथ्यैश्चरति । तयाभिहितम् । अहो दैवम् । अहमपुत्रवती * * * * * * क्व मे पुत्र इति । एवं मयाकर्ण्यावधारितम् । किं मे लुब्धकैः । निजकृत्रिमयोः सहाययोर्निजः सहायो गरीयानिति । ततो लुब्धकगृहात्स्वैरं गत आसम् । अथ लुब्धकसकाशादागत इति भयचकितदृशं मातरं प्राप्तः । तयाहमानन्दितः । किमेतदाश्चर्यमिति पृष्टः। स्तन्यक्षीरेण विवर्धितः । तेनातिमात्रमहं षण्मासजातशिशुः स्वयूथ्यमध्यगतः । अभ्यधिकजवत्वाद्गच्छन्मृगानागतः प्रतिपालयामि । अस्माकं द्वे गती । ऊर्ध्वा । आञ्जसी च । तयोर्मातृकपयोविरहादहमाञ्जसीं वेद्मि । नोर्ध्वाम् । अथ कदाचिन्मृगांश्वरमाणान्नानुपश्यामि । आविग्नहृदयश्च क्व ते गता इति विलोकितवान् । पश्यामि तानूर्ध्वगत्यभिज्ञतया जालं विलङ्घ्याग्रतो गतान् । अहं त्वनभिज्ञः स्त्रीक्षीरदोषात् । तथा च । 12 3 6 9 15 18 Book II. THE WINNING OF FRIENDS; . Tale v: Deer's former captivity. कार्यकाले तु संप्राप्ते नावज्ञेयं त्रयं सदा । बीजमौषधमाहारो यथा लाभस्तथाक्रयः ॥ १४९ ॥ अहं तेन क्षीराख्येनौषधेनोर्ध्वगत्यनभिज्ञतयाञ्जस्या गत्या नि 21
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy