________________
A 181
A 182
A 183
A 184
A 185
A 186
A 187
82
तत्सर्वसंपत्संपन्नस्त्वम् । न चैतन्मन्तव्यम् । यदथैर्विरहितः किं करोमीति । तद्विद्वानसि । किमेव मन्यसे ।
दैवात्कन्दुकपातेनोत्पतत्वार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ १४२ ॥ तत्किं बहुना । स्ववेश्मेदं भवतः । निर्वृतो भूत्वा मयैव सह कालं नयेति । एवमर्धावसिते च वाक्ये लुब्धकत्रासितश्चित्राङ्गी नाम मृगस्तृषार्तस्तं विपुलहूदमागतः । तं च दृष्ट्वा ते भयचकितहृदयाः पलायितुमारब्धाः । तस्याभिद्रुतमुदका - भिलाषिणो ऽवसरतो वारिसंघट्टश्रवणान्मन्थरः पुलिनात्त्वरितमम्भसि निमनः । तं चाकुलीकृतं दृष्ट्वा लघुपतनको ऽपि किमेतदिति जिज्ञासुर्विपुलवृचमधिरूढः । हिरथ्यो ऽप्याविग्रमनास्तरुस्तम्भविवरमनुप्रविष्टः । चित्राङ्गो ऽप्यात्मशङ्कया तटमाश्रितः । अथ लघुपतनको वियदुत्पत्य योजनप्रमाणं मण्डलमवलोक्य पुनर्वृक्षमवलीनो मन्थ12 रकमब्रवीत् । एह्येहि । न ते कुतश्चिद्भयमिति । दृष्टं मया । केवलं शष्पभुग्मृगो ह्रदमुदकार्थी समागतः । तच्छ्रुत्वा दीर्घदर्शी मन्थरः समुत्तीर्णः । त्रयो ऽपि ते विश्वस्वचित्ताः पुनः समागताः ।
9
6
Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer.
8
15 अथाभ्युपागतं वत्सलतया मन्थरको मृगमाह । भद्र । पीयतामवगाह्यतां चोदकं प्रकामतः । कृतार्थो भवानिहागन्तुमर्हतीति । तथा चानुष्ठिते चित्राङ्गश्चिन्तयामास । कविदेभ्यो मे विनाशो नास्तीति । कच्छपस्तावच्छक्तिमानुदकगत एव । उन्दुरवाय18 सावपि मृगस्य कावन्यत्र क्षुद्रजन्तोः । तदुपश्चिष्याम्येनान् ।
इति मत्वा तैः संगतः । मन्थरेण स्वागतायुपचारपुरःसरं समभिहितश्चित्राङ्गः । अपि भवतः शिवम् | कथं चेदं गहनं वनमागतो ऽसि । सो ऽब्रवीत् । निर्विणो ऽस्त्री21 त्यनेन महता भयेनानेकप्रकारेण । सारो हेर्लुब्धकैश्चेतश्चेतश्च परिषड्यमानो ऽहं महदिदं विजनमागतो ऽस्मि । तच श्रुत्वा मन्थरेणाभिहितम् । भद्र । मा भैषीः । स्ववेश्मेदं भवतः । निर्विघ्नमत्र यथेप्सितमुष्यतामिति । ततस्तेषामेवं प्रीत्या कालो ऽति24 वर्तते । सर्वेषां च कृताहाराणामजस्रं विपुलवृचच्छायायां मध्याइवेलायां समागमः । अनेकशास्त्र विवरणव्यापारसक्तचित्तानां कालो ऽतिवर्तते ।
अथ कदाचिदुचितायां वेलायां चित्राङ्गो न दृश्यते स्म । तं चापश्यन्तो ऽतीव - 27 व्याकुलितचित्ताः संपन्ना: । विपरीतचित्ता निमित्तप्रचोदिताकुशला धृतिं न लेभिरे यदा । तदा लघुपतनकं मन्थर आह । त्वमभिज्ञो ऽस्यस्य कर्मणः शक्तियुक्तत्वात् । तदुपलभ्यतामुत्लुत्य यथावस्थितां चित्राङ्गवार्त्तामिति । तथा चानुष्ठिते नातिदूरं 80 गत्वापश्यदुदकावतारे कीलसक्तचर्मपाशेनावबद्धं मृगम् ।
समेत्य चाब्रवीत् । कथमिमामापदं प्राप्तस्त्वमिति । सो ऽब्रवीत् । भद्र । नायमाक्षेपस्य कालः । ये मूढधियो हेयोपादेयं न जानते । ते व्यसनकाले ऽन्यथा