SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 81 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. प्राक्कायतिजनिती हि यो विपाकः सो ऽवश्यं भवति नृणां शुभो ऽशुभो वा ॥ १३२ ॥ ३ कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पो ऽपि व्रतनियमोपवासधर्मः । प्राणेषु प्रहरति नित्यमेव मृत्यु6 भूतानां महति कृते ऽपि हि प्रयत्ने ॥ १३३ ॥ संग्रामे प्रहरणसंकटे वने वा दीप्ते ऽपौ तरविवरे महोदधौ वा । 9 सर्वा सह वसतामुदीर्णद भाव्यं भवति न भाविनो विनाशः ॥ १३४॥ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः । 12 अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ॥ १३५ ॥ यस्मिन्वयसि यत्काले यदहे चाथवा निशि । यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १३६ ॥ 15 नवान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रदेशे । न मातृकुक्षौ न च सो ऽस्ति देशो 18 यत्र स्थितस्य प्रभवेन्न कर्म ॥ १३७ ॥ न दाता सुखदुःखानां न हर्ता भुवि कश्चन । आत्मापराधमूलस्य फलान्येतानि देहिनाम् ॥ १३८ ॥ 21 अपि च । द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् । आनीय झगिति घटयति विधिरभिमतमभिमुखीभूतः ॥ १३९ ॥ तत् । भद्र । भवानरोगः संतोषपरश्च । उद्यमनपरो भव । अवश्यमशोकवृत्त्या वर्तसे। दानाद्दमो विशिष्टो वै दानं केचिद्विजानते । दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥ १४० ॥ 27 दान्तेन दानं दातव्यम् । उक्तं च । दानेन तुल्यो विधिरस्ति नान्यः संतोषतुखं सुखमस्ति किं वा । 90 विभूषणं शीलसमं कुतो वा लाभो ऽस्ति नारोग्यसमः पृथिव्याम् ॥ १४१ ॥ 1179 1180
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy