________________
Frame-story.
79 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. ___ Tale iv: Weaver and Stingy and Bountiful.
सोमिलको ऽपि प्रभाते तन्नगरमनुप्रविश्य सार्थवाहं धनगुप्तम ससाद । तत्रासौ निर्भय॑मानो ऽपि कथमपि गृहे प्रविश्या-1 3 लिन्दके निपत्या वस्थितः । सो ऽपि वणिक्संध्यामतिवाह्य निशामुखे किंचिन्मात्रमशनमकरोत् । सोमिलके ऽपि किंचिन्मात्रमशनमदापयत् । अथासौ कौलिकः कुशानास्तीर्य भूमौ निपत्य सुप्तो 6 ऽपश्यत्तावेव द्वौ पुरुषो। तयोरेको ऽब्रवीत् । भो वङ्काल । धनगुप्तेनाद्य कौलिकस्याशनं दापयता द्विगुणव्ययेनात्मा नियोजित इति। सर्वस्य निपुणं गणयामि। नास्य स्थापनादृते दाने भोजने वा किं• चिद्विहितम् । तदहं प्रातः समीकरोमीति । एवं श्रुत्वा प्रतिबुद्धः । धनगुप्तोऽपि प्रातर्विषूचिकया महानत्ययं गतः। वेदोष्णवारिपानादिना च परिक्लिष्योपोषितः । ततः स कौलिकः प्रभाते दैवची12 दितो ऽचिन्तयत् । ईदृशेन धनेन किं कारणम् । प्रकृतिर्दुस्त्यजेति।
ततो द्वितीयं तं व्ययशीलं भोगवर्माणमुद्दिश्य सोमिलको गतः। तेनासी महता भोजनपानादिना सत्कृतः सोमिलकस्तथैव महति 15 शयने सोपचारे स्वास्तीर्णे निशायां सुप्तो ऽपश्यत्तावेव पुरुषौ ।
तयोरेको ऽब्रवीत् । भद्र वङ्काल । शोभनमनुष्ठितं भोगवर्मणा प्राहुणकं सोमिलकं संमानयता । तद्भयो ऽपि प्रवर्धमानमर्थ व्य18 योपभोगे ऽस्य दातव्यम् । स चाह । एवं क्रियते ।
प्रतिबुद्धः सोमिलको चिन्तयत् । भोगा ईदृशो मे भवन्तु । किं धनेन नाममात्रेण क्रियत इति । तथा च समर्थितवान् ।
176
। अतो ऽहं ब्रवीमि । अर्थखोपार्जनं कृत्वेति । तन्मयैव सहानुद्विग्नः कालमतिवाहयस्वेति । तच्छ्रुत्वा हिरण्यो ऽब्रवीत् । * * * * * * * * * * * * * * * भद्र
मन्थरक । एवमेतत् । साध्वाश्रयणीयगुणोपेतो ऽसि । सुतरां मे हिरण्याभ्यवपत्ती 24 मनस्तुष्टिकत्पन्ना । को इत्र विस्मयः ।