SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 75 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. A 172 नैनं सुहत्समनुयाति न बन्धुवर्गों नार्थाः प्रयत्वरचिता न रतिर्न भोगाः । 3 यस्मिन्क्षणे प्रियशतानि विहाय पुंसः प्राणाः स्वकर्मफलपथ्यदनाः प्रयान्ति ॥ १०३ ॥ सर्वथा धर्ममूलो ऽर्थो धर्मश्चार्थनिबन्धनः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ १०४ ॥ जीवितं च शरीरं च जात्वैव सह जायते । उभे सह विवर्धते उभे सह विनश्यतः ॥ १०५ ॥ " यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा कर्तृसहस्रेषु कर्तारं कर्म विन्दति ॥ १०६ ॥ उक्तं च । 12 सधन इति किं मदस्ते च्युतविभवः किं विषादमुपयासि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १०७ ॥ तेन हि जलबुद्धदवदस्थिराणि धनानि । कथम् । 16 मेघच्छाया खलप्रीतिर्नवसथानि योषितः । किंचित्कालीपभोग्यानि यौवनानि धनानि च ॥ १०८ ॥ तद्वद्धिमता धनमासाद्य दानभोगयोर्विनियोक्तव्यम् । उक्तं च । 18 आयासशतलभ्यस्य प्राणेभ्यो ऽपि गरीयसः । गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥ १०९ ॥ यो न ददाति न भुते सति विभवे नैव तस्य तद्व्यम् । 21 कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥ ११० ॥ अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् । अन्यैः संचीयते यत्नादन्यैश्च मध पीयते ॥ १११ ॥ तत्केचिदत्र पुरुषा धनभोगभागिनः । केचिदस्य रक्षितारः । तथा च । अर्थस्थोपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ ११२ ॥ 7 हिरण्य आह । कथं चैतत् । मन्थरको ऽब्रवीत् । A 173 A 174 A 175
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy