SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ A 163 A 164 A 165 1 166 A 167 73 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Frame-story: Dove, mouse, crow, tortoise, and deer. तदेतन्मम निर्वेदकारणम् । अपि च । न कथंचन जीव्यते । समृगोरगसारङ्गं सदेवासुरमानुषम् । 3 आ मध्याज्ञात्कृताहारं भवतीह जगत्त्रयम् ॥ ८५ ॥ इल्लामपि महीं जित्वा निकृष्टां प्राप्य वा दशाम् । वेलायां भोक्तुकामेन लभ्या तण्डुलसेतिका ॥ ८६ ॥ • यस्यानुबन्धात्पापीयानधोनिष्ठो विपद्यते । तस्यार्थे को नु विबुधः कुर्यात्कर्म विगर्हितम् ॥ ८७ ॥ तच्छ्रुत्वा मन्थरस्तं समाश्वासितवान् । भद्र । नाधृतिः करणीया स्वदेशपरित्यागो 9 मया कृत इति । बुद्धिमांश्चासि । किं विमुह्यसे । अपि च । शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । 12 उल्लाघयत्यातुरमौषधं हि किं नाममात्रेण भवत्यरोगः ॥ ८८॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । 15 न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ८९ ॥ न स्वल्पमप्यव्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । 18 अन्धस्य किं हस्ततलस्थितोऽपि निवर्तयत्यान्ध्यमिह प्रदीपः ॥ ९० ॥ दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्त एव हि । 21 यातयित्वा च यात्यन्ते नरा भाग्यविपर्यये ॥ ९१ ॥ न चेतन्मन्तव्यम् । [स्थानस्थिता हि पुरुषाः पूज्यन्ते न पदच्युताः ।] 24 स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः । एतज्ज्ञात्वा तु मतिमान्न स्वस्थानं परित्यजेत् ॥ ९२ ॥ तत्कापुरुषवृत्तमेतत् । न हि सतां स्वदेशविदेशयोर्विशेषः । 27 को धीरस्य मनस्विनः स्वविषयः को वा विदेशः सतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यद्दंद्रानखलाङ्गलप्रहरणैः सिंहो वनं गाहते Book II. 30 तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥ ९३ ॥ तत् । भद्र । नित्यमुद्योगपरेण भवितव्यम् । K
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy