SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 72 सो ऽहं बहु विचिन्त्यास्तां धनमेतन्ममेति निवृत्तस्तृष्णातः । *सुष्ठु चेदमुच्यते’। 3 ज्ञानं चक्षुर्नेदं शीलं कुलपुत्रता न कुलजन्म । संतोषश्च समृद्धिः पाण्डित्यमवार्यविनिवृत्तिः ॥ ७८ ॥ सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् । उपानद्गूढपादस्य सर्वा चर्मावृतैव भूः ॥ ७९ ॥ न योजनशतं दूरं वाह्यमानस्य तृष्णया । संतुष्टस्य करप्राप्ते ऽप्यर्थे भवति नादरः ॥ ८० ॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते पर्णैस्तृणैर्वनगजा बलिनो भवन्ति । मूलैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव महतां परमा विभूतिः ॥ ८१ ॥ तत्सर्वथासाध्ये ऽर्थे परिच्छेद एव श्रेयान् । दारिद्र्यस्य परा मूर्तिर्याच्चा न द्रविणाल्पता । 15 जरद्गवधनः शम्भुस्तथापि परमेश्वरः ॥ ८२॥ तथा च । G Book II. THE WINNING OF FRIENDS; Tale i: Mouse and two monks. 9 12 को धर्मो भूतदया किं सौख्यमरोगता जन्तोः । 18 कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ८३ ॥ सन्ति शाकान्यरण्येषु नद्यश्च विमलोदकाः । चन्द्रः सामान्यदीपो ऽयं विभवैः किं प्रयोजनम् ॥ ८४ ॥ इति । एवमवधार्याहं स्वभवनमागतो ऽपश्यं चित्रग्रीवं पाश 21 बद्धम् । इति च तं मोक्षयित्वानेन लघुपतनकेनाहं भवदन्तिकं प्रापितः ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy