SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 45 OR, THE LION AND THE BULL. Book I. Tale xiv: Ape, glow-worm, and officious bird. Frame-story. ॥ कथा १४॥ अस्ति कस्मिंश्चिद्वनोद्देशे महान्वानरयूथः । स कदाचिद्धेमन्त• काले ऽसुखासीनो ऽतिविह्वलतया खद्योतं दृष्ट्वाग्निरयमित्याहार्यः शुष्कतृणपणेराच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान्कण्ड्रयमानः प्रतापमनोरथसुखानि किलानुभवति । तत्रैकः शाखामृग• स्तद्गतमना मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम * * * * * * * । तेन वृक्षादवतीर्याभिहितः । मा क्लिशः । नायं वह्निः । खद्योतो ऽयमिति। अथासावधमत्तस्य तद्वचनमवमन्यैव । • पुनश्च तेनासकृतार्यमाणो नैव शाम्यति । किं बहुना । तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितः । यावत्तेन सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतो ऽसाविति । A 107 A 108 12 अतो ऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा । किं करिष्यति पाण्डित्यं वस्तुष्वप्रतिपादितम् । सपिधाने धुतः कुम्भे प्रदीप व वेश्मनि ॥ १६१ ॥ 15 तदपजातस्त्वम् । उक्तं च । जातः पुची अनुजातच अभिजातस्तथैव च । अपजातच लोके ऽस्मिन्मन्तव्याः शास्त्रदृष्टिभिः ॥ १६२ । 18 सामान्यजन्मा जातस्तु अनुजातः पितुः समः । अभिजातो ऽधिकस्तस्मादपजातो ऽधमाधमः ॥ १६३ ॥ साधु चेदमुच्यते । 21 प्रजया वा विसारिया यो धनेन बलेन च । धुरं वहति गोचस्य जननी तेन पुत्रिणी ॥ १६४ ॥ आपातमात्रसौन्दर्य कुत्र नाम न विद्यते । 24 अत्यन्तप्रतिपत्त्या तु दुर्लभो ऽलंकृतो जनः ॥ १६५ ॥ तत् । मूर्ख । न किंचिदभिवदसि । उक्तं च । A 109
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy