________________
A 100
A 101
A 102
A 103
A 104
A 105
A 106
44
शायेन मित्रं कलुषेण धर्म परोपतापेन समृद्धिभावम् । 3 सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १५३ ॥
तथा ।
Book I. THE ESTRANGING OF FRIENDS ; Frame-story: Lion and bull.
• यैव भृत्यगता संपद्विभूतिः सैव भूपतेः ।
रत्नोद्भासिभिरुद्भूतैः कस्तरंगैर्विनोदधिः ॥ १५४ ॥
यश्च स्वामिनो लब्धप्रसादो भवति । स नितरां विनीततरो भवतु । उक्तं च । 9 यथा यथा प्रसादेन भर्ता भृत्यस्य वर्तते ।
तथा तथा शशाङ्कस्य गतिव्यन्येव शोभते ॥ १५५ ॥ तलघुधर्मो ऽसि । उक्तं च ।
12 महान्प्रणुन्नो न जहाति धीरतां
न कूलपातैः कलुषो महार्णवः । लघोर्विकारस्तनुनापि हेतुना
1
15 चलन्ति दर्भाः शिथिले ऽपि मारुते ॥ १५६ ॥ अथवा स्वामिन एवैष दोषः यद्युष्मद्विधैर्मन्त्रमाचव्यपदेशकेवलोपजीविभिः षाङ्गुण्योपाये ऽत्यन्तबाह्यैस्त्रिवर्गप्राप्त्यर्थमसमीच्य मन्त्रयते । साधु चोच्यते । चित्रस्वादुकथैर्भृत्यैरनायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १५७ ॥
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतं मन्त्रित्वमनेनागमेन । नूनं पितापि त 21 एवंलक्षण एवासीत् । कथं पुनरेतज्ञायते ।
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
न हि केतकवृचस्य भवत्यामलकीफलम् ॥ १५८ ॥
18
24 न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना कालेनापि । यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेदमुच्यते । यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
27 यदि जलदनादमुदितास्त एव मूढा न नृत्येयुः ॥ १५९ ॥ तत्सर्वथा । किं तवोपदेशेनापसदस्य । उक्तं च ।
नानाम्यं नाम्यते दारु न शस्त्रं वहते ऽश्मनि ।
सूचीमुखं नु जानीहि यो ऽशिष्यायोपदिष्टवान् ॥ १६० ॥ दमनकः । कथं चैतत् । करटकः ।
80