________________
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
A93
494
A95
शास्त्रे चाभिहितः पञ्चाङ्गो मन्त्रः । तद्यथा । कर्मणामारभोपायः । पुरुषद्रव्य- संपत् । देशकालविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति । सो ऽयमधुना ३ स्वामिनी महानत्ययो वर्तते । तदत्र विनिपातप्रतीकारश्चिन्त्यताम् । अपि च ।
मन्त्रिणां भिन्नसंधाने भिषजां सानिपातिके।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १४६ ॥ तत् । मूर्ख । विपरीतबुद्धिरसि । विद्वन्मानिखादात्मनो ऽनर्थमुत्पादयसि । साधु चेदमुच्यते ।
ज्ञानं मदोपशमनं खलानां कुरुते मदम् ।
चक्षुःसंस्कारजं तेज उलूकानामिवान्धताम् ॥ १४७ ॥ तं च कृच्छ्रावस्थागतं स्वामिनं दृष्ट्वा परं विषादमगमत् । आह च । कष्टमिदमापतितं नीचोपदेशात् । अथवा साध्विदमुच्यते ।
12 नराधिपा नीचमतानुवर्तिनो
बुधोपदिष्टेन न यान्ति वर्मना । विशन्ति ते दुर्गममार्गनिर्गम 15 समस्तसंबाधमनर्थपञ्जरम् ॥ १४८ ॥ तत् । मूढ । सर्वस्तावत्खामिनो गुणवत्परिग्रहं करोति । वद्विधेन तु पिशुनवचसा भेदः कृतः स्वामिनो मित्रविशेषतः । कुतः स्वामिनो गुणवत्सहायसंपत् । 18 उक्तं च ।
गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
प्रसन्नखादुसलिलो दुष्टग्राहो यथा ह्रदः ॥ १४९ ॥ 21 त्वं तु प्रायश आत्मविभूत्यर्थ कुविकल्पमेनमिच्छसि । तत् । मूर्ख ।
आकीर्णः शोभते राजा न विविक्तः कथंचन ।
ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १५० । - त्वं चैतन्नावबुध्यसे । तदसंशयातिविसंवाद एव. प्रजापतेः । कस्मात् ।
परुषे हितमन्वेष्यं तच्चेन्नास्ति विषं हि तत् ।
मधुरे शायमन्वेष्यं तच्चन्नास्त्यमृतं हि तत् ॥ ११ ॥ 27 यदपि च परमुखोपभोगेप्रैया दुःखितो ऽसि । तदपि न साधु लब्धसद्भावेषु मिचेष्वेवं वर्तितुमिति ।
यः सेर्घः परवित्तेषु रूपे वीर्ये कुले ऽन्वये । 30 सखे सौभाग्यसंस्कारे तस्य व्याधिरनन्तकः ॥ १५२ ॥
A96
A97
498
A99