________________
A 88
A 89
A 90
41
Frame-story.
सिंहे क्रव्यमुखो मुखं चतुरकस्यावलोकितवान् । चतुरको ऽब्रवीत् । किमधुना मन्मुखमवलोकयसि । स्वामिन् ' भक्षितमनेनेति । अथ • सिंहः कुलिशखरनखरो भूकुटिलमुखः प्रकटितरोषस्तं हन्तुमैच्छत् । अथासावपि वृको मुखवैवर्ण्यवेपथुव्याप्ततनुरतनुपदविक्षेपः क्षिप्रपलायनपटुरटवीमुद्दिश्य जगाम । सिंहो ऽपि किंचिदनुसृत्य प्रतिनिवृत्तः ।
6
OR, THE LION AND THE BULL. Book I. Tale xiii: Jackal outwits camel and lion.
एतस्मिंश्चान्तरे कथमपि च तत्समीपमथ कश्चित्सार्थवाहो ऽनेन पथायातः । तस्य च सार्थाग्रेसरं कटाहेन गलबद्धेन करभमागच्छन्तं दृष्ट्वा कृतकविषादो जम्बुकस्तं सिंहमाह । देव' विनष्टावावाम् । मा खलु कश्चिद्धनं धारयतु । यावदद्यापि पिशितं नोपभुज्यते ' तावद्बृहत्प्रस्थमादाय धनिकाचारेणायं करभकः संप्राप्तः। 12 तत्किमत्र प्राप्तकालम् । गच्छतु स्वामी दिगन्तरमन्यत् । यावदहमेनं लब्धचित्ताभिप्रायं करोमीति । एवमभिहिते सिंहस्तस्मादपयातः । चतुरको ऽपि बहुदिनानि तत्पिशितमुपभुक्तवान् ।
9
21
15 अतो ऽहं ब्रवीमि । परस्य पीडां स्वार्थ वेति । अपि च । अप्रियाण्यपि कुर्वन्तः स्वार्थायोद्यतचेष्टिताः । पण्डिता नोपलभ्यन्ते वायसैरिव कोकिला:
१३४ ॥
18 इति ।
एवमभिहितवति दूरादेवात्मशङ्कया तदवस्थं पिङ्गलकमालोक्य संजीवको यथापूर्वाख्याताकारः संवृत्तः । शरीरे यत्नमास्थायोपलिष्टस्तत्सकाशमेव चिन्तयामास । साध्विदमुच्यते ।
अन्तर्लीनभुजंगमं गृहमिवान्तःस्थोग्रसिंहं वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः ।
कालेनार्थजनापवादपिशुनैः क्षुद्रैरनायैः श्रितं
दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥ १३५ ॥ पिङ्गलको ऽपि तथैव व्यक्तलचणं तं दृष्ट्वा समुत्पत्य तस्योपरि संनिपतितः । अथ
F
24