SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; Tale xiii: Jackal outwits camel and lion. दन्विष्यतां वने सत्त्वजातम् । येनाहमेतदवस्थोऽपि भवतां वृत्तिमापादयिष्यामि । अथ तदाज्ञासमकालमेव ते ऽरण्ये पर्यटन्तो यदा न किंचिदासेदुः । तदासौ जम्बुकस्तं शङ्ककर्णनामानं करभं विविक्ते ऽभिहितवान् । किमत्र प्राप्तकालं मन्यते भवान् । स्वामी वज्रदन्तो ऽस्मदीयपर्यटनमनर्थकं श्रुत्वा कदाचिद्विनाशाय प्रवर्तते। • तदहं किंचिद्भवतः प्रार्थये । यदि प्रतीच्छसीति । स आह । किं ममास्ति । वयस्य । यत्प्रार्थ्यते । शरीरमपि मे त्वदायत्तम् । यथाभिमतमुपयुज्यतामिति । अथ जम्बुको ऽब्रवीत् । एतदेवात्र कार७ णम् । अहं ते द्विगुणं शरीरं सिंहसकाशाद्दापयिष्ये । त्वयाप्येवं वयमात्मा च संवर्धिताः स्युरिति । प्रतिपन्नश्चासौ। ___ एवमभिधाय सिंहसकाशं गत्वा तमाह । स्वामिन् । न किं12 चित्सत्त्वमासादितम् । एष पुनः शङ्ककर्णो ऽभिधत्ते । बृहत्प्रस्थेन द्विगुणया तुलयोज्जास्यं शरीरं संप्रयच्छामीति । तच्छ्रुत्वा सिंहः प्रहृष्ट आह । एवं क्रियताम् । अथ प्रतिपन्ने शङ्ककर्णः पपात 15 भूमौ । खण्डशश्च कृतः। ___ ततश्चतुरकस्तं सिंहं रुधिररक्तसर्वगात्रं दृष्ट्वाब्रवीत् । गच्छतु स्वामी स्नानमाचरितुम् । यावदहं क्रव्यमुखसहितस्तिष्ठामि । गते 18 च तस्मिंश्चतुरकस्तं क्रव्यमुखमाह । भक्षय तावदतः पिशितम् । यावदसौ स्नातुं गतः । सो ऽब्रवीत् । भक्षयित्वा किमुत्तरं दास्यामि । जम्बुको ऽब्रवीत् । किं तवानेन विचारेण । अहमेतस्य 1 प्रतिवचनं दास्यामि । त्वया पुनर्मम मुखमेवावलोकितव्यमिति । एवमुक्ते ताभ्यां क्रव्यमतिबहु भक्षितम् ।। अत्रान्तरे सिंहः संप्राप्तो यावत्पश्यति सकलं जठरपिशितमुप9 भुक्तम् । ततश्चतुरकमाह। माम। क्व तज्जठरपिशितम् । एवं वदति
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy