SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 39 OR, THE LION AND THE BULL. Book I. Tale a: Strand-bird and sea. Frame-story. Tale xiii: Jackal outwits camel and lion. एवमुक्ती महोदधिश्चिन्तयामास । ममाण्डजेन सर्वनाश एव प्रारब्धः । इति मत्वा प्रणम्य देवं समर्पितवानिति । A81 A82 A83 3 अतो ऽहं ब्रवीमि । शत्रोराक्रन्दमज्ञावेति । अवगतार्थश्च संजीवकस्तमपृच्छत् । वयस्य । कस्तस्य युद्धमार्ग इति । दमनकः । अन्यदासी स्रस्ताङ्गः शिलातलमाश्रितस्त्वदुन्मुखः प्रतीक्षते । अद्य यदि प्रथममेव संगृहीतलाङ्कल: संयतचतुश्चरणः स्तब्ध6 कर्णश्च तिष्ठेत् । ततस्त्वयावगन्तव्यम् । अयं ममोपरि द्रोग्धुमतिरिति । एवमुक्त्वा करटकसकाशमगमत् । तेन चाभिहितः । किमनुष्ठितं भवता । दमनकः । भिन्नौ तौ तावत्परस्परं फलेन ज्ञास्यसीति । कश्चात्र विस्मयः । 9 भिनत्ति सम्यक्प्रहितो भेदः स्थिरमतीनपि । भूधरान्संहतशिलानहानिव रयो ऽभसाम् ॥ १२९ ॥ तत्सर्वथा पुरुषेणात्महितं कर्तव्यम् । आह च । 12 यो ऽधीत्य शास्त्रमखिलं शास्त्रार्थ तत्त्वतश्च विज्ञाय । ___ आत्महितानि न कुरुते श्रमजनस्तस्य किं शास्त्रैः ॥ १३० ॥ करटकः । न किंचिदवात्महितम् । यस्मात् । 15 कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परपीडाभिर्धार्यतामिति को नयः ॥ १३१ ॥ दमनकः । नाभिज्ञो ऽसि नीतिशास्त्राणाम् । 18 निस्तब्ध हृदयं कृत्वा वाणी चेक्षुरसोपमाम् । दु:खं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥ १३२ ॥ अन्यच्च । निहतो ऽप्यस्माकमुपभोग्यो भविष्यति । तथा हि । 21 परस्य पीडा स्वार्थ वा कुर्वाणा न ह्यपण्डितः । लच्यन्ते गूढमतयो वने चतुरको यथा ॥ १३३ ॥ करटकः । कथमेतत् । दमनकः । A85 A86 A 87 ___4 ॥ कथा १३॥ अस्ति । कस्मिंश्चिद्वनोद्देशे वृकजम्बुककरभसहितो वज्रदन्तो नाम सिंहः प्रतिवसति स्म। कदाचिदसौ वन्यद्विपरदनकोटिपाटितवक्षा 7 एकदेशस्थः क्षुत्क्षामतनुः क्षुधा परिगतांस्तान्सचिवानाह । किंचि
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy