________________
38
Book I. THE ESTRANGING OF FRIENDS%3B Tale xii: Three fishes.
Tale x: Strand-bird and sea.
अन्येाश्चापयाते ऽनागतविधातरि मत्स्यबन्धैरन्तःस्रोतो निरुध्य प्रक्षिप्तं संवर्तजालम् । अपकृष्टे च जाले तस्मिन्हदे नाप्येकतरोऽव3 शिष्टः । एवं गते प्रत्युत्पन्नमतिर्मतरूपं कृत्वात्मानं जलस्योपरि दर्शितवान् । तैरपि स्वयमेव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः । तस्मादुल्लत्यान्यं जलाशयं गतः । यद्भविष्य• स्त्वनेकलगुडप्रहारजर्जरितशरीरः पञ्चत्वमुपनीत इति । __ अतो ऽहं ब्रवीमि । अनागतविधाता चेति । अथ कदाचित्प्र
सूतायां टीटिभ्यां तद्भर्तृजिज्ञासया समुद्रेणापहृतास्ते ऽण्डकाः । • पश्यामि तावत् । अयं किमारभत इति । अथ टीटिभी शून्यमपत्यस्थानं दृष्ट्वा परमाविग्नहृदया भर्तारमाह । इदं तदापतितं मन्दभाग्यायाः। असावन्तीनमवहस्य तामाह । ममापि तावत् । 19 भद्रे । दृश्यतां सामर्थ्यमिति ।
ततस्तेन पक्षिसमाज कृत्वा निवेदितं तदपत्यहरणजं दुःखम् । तत्रैकेनाभिहितम् । असमर्था वयं महोदधिविग्रहाय । किं पुन16 रत्र प्राप्तकालम् । सर्व एव वयमाक्रन्देन गरुत्मन्तमुटेजयामः । स एव नो दुःखमपनेष्यति । इत्यवधार्य तत्सकाशं गताः । असावपि
देवासुररणनिमित्तमाहूतो विष्णुना गरुडस्तत्स्वयूथ्यव्यसनं दृष्ट्वा 18 मन्युमाजगाम । देवो ऽपि विष्णुस्त्रैकाल्यदर्शनसामर्थ्यात्तस्यान्तर्गतं मत्वा स्वयमेव तत्सकाशमगमत् ।
अथ देवं दृष्ट्वा सुतरामाविग्नहृदयो ऽब्रवीत् । युक्तं त्वया ना॥ थेन सता समुद्रापसदान्ममायं परिभव इति । ज्ञात्वा च देवः . परिहस्य समुद्रस्येदमुवाच । समर्पयाधुनापत्यानि टीटिभस्येति ।
अन्यथा त्वामाग्नेयास्त्रप्रतापितमनेकवडवामुखसहस्रपरिक्षीणतोयं सद्यः करिष्यामीति ।