________________
37
OR, THE LION AND THE BULL. Book I. Tale xi: Two geese and tortoise.
Frame-story.
Tale xii: Three fishes.
षष्टिमात्राणि योजनानि महत्सरो भवन्तं नयावः । तत्र सुखं यापयिष्याम इति । एवं च निष्पन्ने तज्जलाशयसंनिकृष्टनगरस्योपरिष्टान्नीयमानं दृष्ट्वा । किमिदं शकटचक्रप्रमाणं वियता नीयते । इति जनः सकलकलः संवृत्तः । तच्च श्रुत्वासन्नविनाशः कच्छपो
यष्टिं त्यक्त्वाभिहितवान् । अहं कच्छपः । चापलादेष लोकः प्रल• पति । इति ब्रुवन्वचनसमकालमेवाश्रयात्परिभ्रष्टो भूमौ निपतितः । मांसार्थिना च लोकेन पातसमकालमेव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति । • अतो ऽहं ब्रवीमि । मित्राणां हितकामानामिति । पुनश्चाह ।
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ १२८ ॥ 12 टीटिभः । कथमेतत् । टीटिभी।
॥ कथा १२॥ अस्ति । कस्मिंश्चिन्महाहूदे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति । 15 स्म । तद्यथा । अनागतविधाता प्रत्युत्पन्नमतिर्यभविष्यश्चेति । तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित्तत्समीपे मत्स्यबन्धाना
मतिकामतां वचनं श्रुतम् । बहुमत्स्यो ऽयं हृदः । अत्र मत्स्यबन्धं 18 कुर्मः । तच्च श्रुत्वानागतविधात्रा चिन्तितम् । अवश्यमेत आगन्तारः । तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यमच्छिन्नस्रोतस्वं इदं संश्रयामीति । ततस्तावाहूय पृष्टवान्गमनाय । तत्र 1 प्रत्युत्पन्नमतिर्मतिनिवारितो ऽभयचित्तः कथमपि प्रमादान्नानुयातः । यद्भविष्यस्त्वासन्नविनाशस्तद्वचनमनादृत्य निरारम्भ एवासीत् ।