SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 36 3 Book I. THE ESTRANGING OF FRIENDS; Tale x: Strand-bird and sea. Tale xi: Two geese and tortoise. 18 1 वाह । भद्रे ' न शक्तो महोदधिर्मया सार्धमीदृशं वैरानुबन्धं कर्तुमिति । साब्रवीत् । बहुसदृशं तव समुद्रेण बलम् । कथमात्मनो ज्ञायते सारासारता । उक्तं च । दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा । एवंविद्यस्य विज्ञानं सफलास्तस्य बुद्धयः ॥ १२६ ॥ • अपि च । 9 मित्राणां हितकामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाङ्गुष्टो विनश्यति ॥ १२७ ॥ टीटिभः । कथं चैतत् । टीटिभी । ॥ कथा ११ ॥ 15 अस्ति । कस्मिंश्चित्सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति 18 स्म । तस्य द्वौ सुहृदौ विकटसंकटनामानौ हंसौ । अथ कालविपर्यये द्वादशवार्षिक्यनावृष्टिरापतिता । ततस्तयोर्मतिरुत्पन्ना । क्षीणतोयमिदं सरः । अन्यं जलाशयं गच्छाव इति । किं पुनश्चि 1. रोषितं प्रियमित्रं कम्बुग्रीवमामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । कस्मान्ममामन्त्रणं क्रियते । यदि तु स्नेहो ऽस्ति । ततो मामप्यस्मान्मृत्युमुखात्त्रातुमर्हथः । यत्कारणम् ' युवयोस्तावदाहारवैकल्यं केवलमस्मिन्स्वल्पोदके सरसि ' ममात्र तु मरणमेव। तद्विचिन्त्यताम् ' आहारसुहृद्वियोगयोः को गरीयान् । ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवाञ्जा21 नाति । अवश्यं नयाव आवां भवन्तम् । त्वया पुनश्चापलान्न किंचिद्वक्तव्यम् । इमां तु यष्टिं मध्ये दशनैरापीडय । एवमनयैवोद्धृत्य
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy