SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 35 OR, THE LION AND THE BULL. Book I. Tale x: Strand-bird and sea. Frame-story. मृदुना सलिलेन खन्यमाना न्यपक्वष्यन्ति गिरेरपि स्थलानि । 3 उपजापकृतोद्यमैस्तु तन्नः किमु चेतांसि मृदूनि मानवानाम् ॥ १२० ॥ तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्ययुद्धात् । 6 गुरोरप्यवलिप्तस्य कार्याकार्यायजानतः । उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२१ ॥ अपि च । 9 यान्यचसंघस्तपसा च लोका स्वगैषिणः पात्रचयैः प्रयान्ति । क्षणेन तानप्यतिरिच्य शूराः 12 प्राणान्स्वयुद्धेषु परित्यजन्तः ॥ १२२ ॥ प्राणाच कीर्तिश्च परिच्छदश्च सर्वेण युद्धे परिरक्षणीयाः । 15 युद्धे विशिष्टं मरणं नराणां द्विषद्वशे तिष्ठति को ऽर्थकामः ॥ १२३ ॥ मृतः प्राप्स्यति वा स्वर्ग शत्रु हत्खापि वा सुखम् । 18 उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२४ ॥ दमनकः । भद्र । अनुपाय एषः । यत्कारणम् । शवोराक्रन्दमज्ञात्वा वैरमारभते हि यः । 1 स पराभवमाप्नोति समुद्र व टीटिभात् ॥ १२५ ॥ संजीवकः । कथं चैतत् । दमनकः । ॥ कथा १०॥ ' अस्ति । समुद्रतीरैकदेशे टीटिभदंपती प्रतिवसतः स्म । अथ कदाचित्प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः । किंचित्स्थानमविष्यताम् । यत्राहं प्रसुवे । असावकथयत् । नन्वेतदेव स्थानं ॥ वृद्धिकरम् । अत्रैव प्रसूष्वेति । साब्रवीत् । अलमनेन सापायेन । अवश्यमेव समुद्रजलवेलाप्लवनान्ममापत्यविनाशो भवति। असा
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy