________________
34
Book I. THE ESTRANGING OF FRIENDS%3B Tale ix: Lion's retainers outwit camel.
Frame-story.
निवेदयति । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किंचिदप्युदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतक७ वचनैः प्रत्येकं विज्ञापितवान् । सिंहान्तिकं गतैर्युष्माभिरेवं वक्तव्यमिति । ततः कृतसंविदः सह क्रथनकेन सिंहसकाशं गताः । अथ वायसः प्रणम्य सिंहं विज्ञापितवान् । देव । स्वामिशरीरं • सर्वथा रक्ष्यमस्मच्छीरेणेति। अथासावाह। अकल्पकायो भवान्। न युष्मच्छीरोपभोगे कृते ऽप्यस्माकं किंचित्तृप्तिकारणं भवति । तस्मिंश्चापयाते गोमायुरभिहितवान् । अस्मान्मम विशिष्टतरं शरी• रम् । तन्मत्प्राणैः क्रियतां प्राणयात्रेति । तमपि तथैवाभिहितवान् । अपयाते च तस्मिन्द्वीप्याह। आभ्यां मम विशिष्टतरं शरीरमिदमुपयुज्यतामिति । तमप्यसावाह। अकल्पकायो भवानपीति। 10 तच्छ्रुत्वा क्रथनको ऽचिन्तयत् । नैवात्र कश्चिद्विनाश्यते । तदहमप्येवमेव ब्रवीमि । तत उत्थाय सिंहान्तिकमुपगम्याब्रवीत् । देव। एभ्यो मम विशिष्टतरं शरीरम् । तस्मान्मच्छीरेणात्मनः प्राणयात्रा 16 क्रियतामिति । एवमभिवदन्नेव द्वीपिगोमायुभ्यां विदारितोभयकुक्षिः सद्यः पञ्चत्वमुपगतो भक्षितश्चेति ।
A76
A 76
अतो ऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । 18 आख्याते चाख्याने पुनर्दमनकं संजीवको ऽब्रवीत् । भद्र । क्षुद्रपरिवारो ऽयं राजा न शिवायाश्रितानाम् । उक्तं च । वरं गृध्रो राजा हंसपरिवारः । न हंसो
राजा गृध्रपरिवारः । परिवाराद्धि दोषाः प्रादुर्भवन्ति । ते ऽलं विनाशाय भव21 न्तीति । तस्मात्पूर्वमेव परिवारं लिप्सेत । तद्वचनप्रेरितस्तु राजा विचारक्षमो न भवति । उक्तं च ।
भद्रेभप्रतिभी राजा न यथावबहुश्रुतः । ___24 सुहृदामेव बाह्यः स्थात्किं चित्रं यदि विद्विषाम् ॥ ११९ ॥ सो ऽयं ममोपरि केनापि विश्वतः । साधु चेदमुच्यते ।
A77