SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 33 3 9 18 नन्वयं क्रथनक इति । त आहुः । अयमस्माकं विश्वासोपगतः शरणागतो वयस्यत्वे ऽनुज्ञातः । स आह । शष्पभुजः पिशिताशिनश्च विषमसंबन्धाः। ततस्तावूचतुः । स्वामिनायमभयप्रदानेन रक्ष्यते । तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसो ऽब्रवीत् । तिष्ठत यूयम् ' यावदहमेवैतदर्थं संप्रतिपादयिष्यामि । इत्युक्त्वा सिंहस• काशमगमत् । सिंहेन चाभिहितम् । अन्विष्टं युष्माभिः किंचित्सत्त्वमिति । काकः । यस्य चक्षुर्बलं वा स्यात् ' सो ऽन्विष्यतु । वयं तु सर्व एवाहारवैकल्यादन्धाः परिक्षीणशक्तयश्च । किंतु प्राप्तका - लमवश्यं विज्ञप्यसे। स्वामिना विनाशितः स्वात्मनात्मा स्वाधीने यर्थे । सिंहः । कथम् । काकः । नन्वयं क्रथनक इति । सिंहः । कष्टम् । नृशंसमेतत् । मयास्याभ्यवपत्तिरभयं च प्रसादीकृतम् । अपि च । 12 OR, THE LION AND THE BULL. Tale ix: Lion's retainers outwit camel. Book I. न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । " यथा वदन्तीह महाप्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥ ११७ ॥ काकः । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतदन्यदपि प्रधानं महर्षिवचनम् । यथा श्रेयसामर्थे पापीयानारम्भः । अपि चोक्तम् । 21 त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ ११८ ॥ पुनश्चाह । मा स्वामी स्वयं व्यापादयतु । मयास्योपधिना वध आरब्धः । सिंहः । कथमिव । काकः । अयं तावदेतदवस्थं स्वामि* नमस्मांश्च दृष्ट्वा स्वयमात्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय E
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy