________________
33
3
9
18
नन्वयं क्रथनक इति । त आहुः । अयमस्माकं विश्वासोपगतः शरणागतो वयस्यत्वे ऽनुज्ञातः । स आह । शष्पभुजः पिशिताशिनश्च विषमसंबन्धाः। ततस्तावूचतुः । स्वामिनायमभयप्रदानेन रक्ष्यते । तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसो ऽब्रवीत् । तिष्ठत यूयम् ' यावदहमेवैतदर्थं संप्रतिपादयिष्यामि । इत्युक्त्वा सिंहस• काशमगमत् । सिंहेन चाभिहितम् । अन्विष्टं युष्माभिः किंचित्सत्त्वमिति । काकः । यस्य चक्षुर्बलं वा स्यात् ' सो ऽन्विष्यतु । वयं तु सर्व एवाहारवैकल्यादन्धाः परिक्षीणशक्तयश्च । किंतु प्राप्तका - लमवश्यं विज्ञप्यसे। स्वामिना विनाशितः स्वात्मनात्मा स्वाधीने यर्थे । सिंहः । कथम् । काकः । नन्वयं क्रथनक इति । सिंहः । कष्टम् । नृशंसमेतत् । मयास्याभ्यवपत्तिरभयं च प्रसादीकृतम् । अपि च ।
12
OR, THE LION AND THE BULL. Tale ix: Lion's retainers outwit camel.
Book I.
न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानम् ।
" यथा वदन्तीह महाप्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥ ११७ ॥
काकः । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतदन्यदपि प्रधानं महर्षिवचनम् । यथा श्रेयसामर्थे पापीयानारम्भः । अपि
चोक्तम् ।
21
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ ११८ ॥ पुनश्चाह । मा स्वामी स्वयं व्यापादयतु । मयास्योपधिना वध आरब्धः । सिंहः । कथमिव । काकः । अयं तावदेतदवस्थं स्वामि* नमस्मांश्च दृष्ट्वा स्वयमात्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय
E