SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 32 Book I. THE ESTRANGING OF FRIENDS%3B Tale ix: Lion's retainers outwit camel. ॥ कथा ९॥ अस्ति । कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति : स्म । तस्यानुचरास्त्रयः पिशिताशिनो द्वीपिवायसगोमायवः। अथ तैर्भमद्भिदृष्टः सार्थवाहपरिभ्रष्ट उष्ट्रः। तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः पृष्टवान् । इदमपूर्वं सत्त्वमिह वने पृच्छयताम् । कस्त्वमिति । ततो ऽवगततत्त्वार्थो वायसो ऽब्रवीत् । आख्यातनामोष्ट्रो ऽयमिति । ततस्तेन सिंहसकाशं विश्वास्यानीतः । तेनापि यथावृत्तमात्मनो वियोगः सार्थवाहात्समाख्यातः। सिंहेन चास्या9 भ्यवपत्तिरभयप्रदानं च दत्तम् ।। ___ एवं च वर्तमाने कदाचित्सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहावासी संवृत्तः । पञ्चषड्दिवसातिक्रान्ते च काले सर्व एव त 12 आहारवैकल्यादात्ययिकमापतिताः । यतो ऽवसन्नाः । ततः सिंहेनाभिहिताः । अहमनया रुजा न क्षमः पूर्ववदाहारं भवतामुत्पा दयितुम् । ते यूयमात्मार्थे ऽपि तावदभ्युद्गमं कुरुत । ते तमाहुः । 15 एवं गते किमस्माकमात्मपुष्ट्यर्थेनेति । सिंहः । साध्वनुजीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः। सरुजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न 18 किंचिदूचुः । तदा तेनाभिहिताः। किमनया वीडया। अन्विष्यतां किंचित्सत्त्वम् । अहमेतदवस्थो ऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । ॥ एवमुक्त्वा ते ऽप्युत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः । व्युदस्य क्रथनकं दुष्टमन्त्रमारब्धाः । तत्र वायस आह । विनाशिता वयमनेन स्वामिना स्वाधीने ऽप्यर्थे । तावाहतुः । कथम् । सो ऽब्रवीत्।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy