________________
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
कष्टं भोः । क्वाहं शष्पभुकू । क्व सिंहसंसर्गः । तथा च ।
हुताशज्वालामे स्थितवति रवावस्तशिखरे 3 पिपासुः किञ्जकं प्रविशति सरोज मधुकरः । तदन्तः संरोधं गणयति न संध्यासमय जनो ऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ ११० ॥ कमलमधुनस्यत्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् । शठमधुकराः सिष्यन्तीमे कटाम्बुष दन्तिनां 9 सुलभमपहायैवं लोकः कटेषु मिहन्यते ॥ १११ ॥ गण्डोपान्तेष्वविरलसृतं वारि मत्तद्विपानां
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः । 12 ते तत्कर्णव्यजनपवनप्रेङ्कितर्भिन्नदेहा
भूमि प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ ११२ ॥ अथवा गुणवतामयं दोषः । 16 स्वफलनिचयः शाखाभङ्गं करोति वनस्पते
मनमलसं बोटोपः करोति शिखण्डिनः ।। चतुरगमनो यो जात्यो ऽश्वः स गौरिव वाह्यते 18 गुणवति जने प्रायेणेते गुणाः खलु वैरिणः ॥ ११३ ॥ अथवा ।
नरेन्द्रा भूयिष्ठं गुणवति जने ऽत्यन्तविमुखाः 1 स्त्रियः प्रायो लोभायसनिषु च मूर्खेष्वभिरताः । नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिरियं
जनः प्रायेणायं न हि पुरुषतत्त्वं गणयति ॥ ११४ ॥ 24 सिंहः पञ्जरयन्त्रणापरिभवप्रम्लानदीनानने
गैरङ्कशभिन्नमस्तकतरीमन्त्रालः पन्नगैः । विद्वनि निराश्रयव्यसनिभिः शूरै भाग्यवतैः 7 कालः क्रीडनकरिवात्मचितैः प्रेङ्गोलनः क्रीडति ॥ ११५ ॥ तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितं नास्ति । उक्तं च ।
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । 30 कुर्युर्दोषमदोषं वा उष्ट्रे काकादयो यथा ॥ ११६ ॥ दमनकः । कथं चैतत् । संजीवकः ।