SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ A 69 A 70 30 अल्पे च गुणाः स्फीतीभवन्ति गुणसमुचितेषु पुरुषेषु । शशिनः श्वेतस्य गिरेः शिखरप्राप्ता इव मयूखाः ॥ १०१ ॥ 3 नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु । अञ्जनगिरिशिखरेष्विव निशासु चन्द्रांशवः पतिताः ॥ १०२ ॥ साधु चेदमुच्यते । Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. • कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०३ ॥ नष्टमपात्रे दानं नष्टं हितमफलबुद्धिविज्ञाने । • नष्टो गुणो ऽगुणज्ञे नष्टं दाक्षिण्यमकृत ॥ १०४ ॥ साधु चेदमुच्यते । अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं 12 स्थले ऽब्जमवरोपितं बधिरकर्णजापः कृतः । श्वपुच्छमवनामितं सुचिरमूषरे वर्षितं कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०५ ॥ 15 अथवा | चन्दनतरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः । गुणघातिनः खलु खला भोगेषु क्व नु सुखान्यविघ्नानि ॥ १०६ ॥ 18 अपि च । पन्नगैर्नगाः सपुष्पफला ग्राहेर्नलिन्य: सपङ्कजा दूषिताश्छायाश्च शार्दूलैः क्षुद्रैश्च सेवा । भद्रं हि दुर्लभमकष्टकम् । तथा च । केतक्यः कष्टकैर्व्याप्ता नलिन्यः पङ्कसंभवाः । 21 विलासिन्यः सकुट्टन्यः क्व रत्नमनुपद्रवम् ॥ १०७ ॥ दमनकः । अयं तावत्स्वामी पिङ्गलक आदौ मधुरः । परिणामे विषप्रतिम इति । विचिन्त्य संजीवको ऽब्रवीत् । भद्र । एवमेतत् । मयेवैतदस्मादनुभूतम् । यथा । दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो 24 गाढालिङ्गनतत्परः प्रियकथा संप्रश्नसक्तोत्तरः । अन्तर्गुढविषो बहिर्मधुमयचातीव मायापटुः 27 को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ १०८ ॥ अपि च । आदावप्युपचारचाटुविनयालंकारशोभान्वितं 30 मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः । पैपुन्याविनयावमानमलिनं बीभत्समन्ते च य हूरे वो ऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ १०९ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy