SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. ___Frame-story: Lion and bull. A49 A50 A51 A 52 सिंहः । भद्र । तथापि तस्योपरि मे चित्तं न प्रदुष्यति । यत्कारणम् । लीलयापि हि यत्सन्तः प्रतिपन्नाः सकृत्क्वचित् । ___ न तन्मिध्या महात्मानः कुर्वन्त्युन्नतचेतसः ॥ ६९ ॥ अपि च । अनेकदोषदुष्टो ऽपि कायः कस्य न वल्लभः । ___6 कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ ७० ॥ दमनकः । अत एवायं दोषः । व्युदस्य सर्व मुगजनं यस्योपर्यास्था प्रतिबद्धा । सो ऽयमधुना स्वामित्वमभिवाञ्छति । अपि च । 9 यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः । सुते वा तत्कुलीने वा स लक्ष्म्या हरते मनः ॥ ७१ ॥ तदसंभाव्यमेतत्परिहरणीयं दूरेण प्रकटसंबन्धेषु । यच्च महाकायो ऽयमिति 12 त्वमुपकाराय चिन्तयसि । तदपि नैवम् । किं गजेन प्रभिन्नेन गजकर्माण्यकुर्वता । स्थले वा यदि वा निम्ने श्रेयान्कृत्यकरच यः ॥ ७२ ॥ 15 तेन हि । देव । नायमुपायः । सतां मतमतिक्रम्य यो ऽसतां वर्तते मते । अचिरात्स च्युतः स्थानाविषतां वर्तते वशे ॥ ७३ ॥ 18 तेन । अप्रियस्यापि वचस: परिणामाविरोधिनः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ ७४ ॥ 21 अपि च । मौलभृत्योपरोधेन नागन्तून्प्रतिमानयेत् । नातः परतरो ऽन्यो ऽस्ति राज्यभेदकरो गदः ॥ ७५ ॥ 24 सिंहः । उक्तो भवति यः पूर्व गुणवानिति संसदि । न तस्य वाच्यं नैर्गुण्यं प्रतिज्ञा परिरक्षता ॥ ७६ ॥ 27 अन्यच्च । मयास्य शरणागत इति कृत्वाभयमभ्यवपत्तिश्च दत्ता । तत्कथमयमकृतज्ञः । दमनकः । दुर्जनः प्रकृतिं याति सेव्यमानो ऽपि यत्नतः । 30 स्वेदनाभ्यञ्जनोपायः श्वपुच्छमिव नामितम् ॥ ७७ ॥ अपि च । A53
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy