________________
15
भार्याभिहिता । यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं कृत्वागच्छामि । तावदप्रमत्तया गृहे त्वया भाव्यम् । इत्यादिश्य गतः । · अथ तस्य भार्या पुंश्चली दूतिकासंचोदिता शरीरसंस्कारं कृत्वा परिचितसकाशं गन्तुमारब्धा । अभिमुखश्चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः परिस्खलितगतिरवस्रस्तवासाः समायातः । तं • च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पमपनीय पूर्वप्रकृतमेव वेषमास्थाय पादशौचशयनाद्यारम्भमकरोत् । कौलिकस्तु गृहं प्रविश्य निद्रावशमगमत् । सुप्तप्रतिबुद्धश्चासौ तामाक्रोष्टुमारब्धः। पुंश्चलि । ' त्वद्गतमपचारं सुहृदो मे वर्णयन्ति । भवतु । पुष्टं निग्रहं करिष्यामीति । असावपि निर्मर्यादा प्रतिवचनं दातुमारब्धा । पुनरपि चासौ प्रतिबुद्धस्तां मध्यस्थूणायां रज्ज्वा सुप्रतिबद्धां कृत्वा प्रसुप्तः। दूतिकैतां पुनर्गमनाय प्रचोदितवती । सा तूत्पन्नप्रतिभा दूतिकामात्मीयदर्शनसंविधानेन बद्ध्वा कामुकसकाशं ययौ । असावपि प्रतिबुद्धस्तथैव तामाक्रोष्टुमारब्धः । दूतिका तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किंचिदुक्तवती । तन्त्रवायस्तु शाव्यादियं न किंचिन्ममोत्तरं प्रयच्छतीत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत्। तिष्ठैवंलक्षणा । कस्त्वामधुना वार्त्ता पृच्छति । इत्यु18 क्त्वा निद्रावशमुपागमत् । आगता च सा तन्त्रवायी दूतिकामपृच्छत् । का ते वार्त्ता । किमयं प्रतिबुद्धो ऽभिहितवान् । कथय कथयेति । दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षमाह । शिवास्ते सर्वा वार्त्ताः । मुञ्च । गच्छामीति । तथा त्वनुष्ठिते नासिकामादायापक्रान्ता । तन्त्रवाय्यपि कृतकबद्धमात्मानं तथैवाकरोत् । कौलिकस्तु यथापूर्वमेव प्रतिबुद्धस्तामाक्रोशत् । असावपि दुष्टा बहु धृष्टतरमाह । धिग्घतो ऽसि । को मां निरागसं
1
12
15
21
OR, THE LION AND THE BULL. Book I. Tale liic: Cuckold weaver.
24