________________
Book I. THE ESTRANGING OF FRIENDS%3B Tale ifia: Monk and swindler. Tale iii b: Rams and jackal. Tale iiia. Tale iiic: Cuckold weaver.
॥ कथा ३॥ अस्ति कस्मिंश्चित्प्रदेशे परिवाडेवशर्मा नाम । तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान्महत्यर्थमात्रा संवृत्ता । स च न कस्यचिदपि विश्वासं याति । अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्कथमियमर्थमात्रास्य मया परिहर्तव्येति वितावलगनरूपेणोपगम्य तत्कालेन च विश्वासमनयत् । अथ कदाचिदसौ परिव्राजकस्तीर्थयात्राप्रसङ्गे तेनाषाढभूतिना सह गन्तुमारब्धः । तत्र च कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक आषाढभू• तिमवस्थाप्यैकान्तमुदकग्रहणार्थं गतः । ..
अपश्यच्च महन्मेषयुद्धम् । अनवरतयुद्धशक्तिसंपन्नयोश्च तयोः शृङ्गपञ्जरान्तरोद्भूतमसृग्बहु भूमौ निपतितं दृष्ट्वाशाप्रतिबद्धचित्तः 1" पिशितलोभतया गोमायुस्तज्जिघृक्षुः संपीडितोवातात्सद्यः पञ्चत्वमगमत् ।
अथ परिवाड्डिस्मयाविष्टो ऽब्रवीत् । जम्बुको हुडुयुद्धेनेति । 1 कृतशौचश्चागतस्तमुद्देशमाषाढभूतिमपि गृहीतार्थमात्रासारमप
क्रान्तं नापश्यद्देवशर्मा । केवलं त्वपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्यपश्यत् । अचिन्तयच्च । क्वासावाषाढभूतिः । नून18 महं तेन मुषितः । इत्युक्तवान् । वयं चाषाढभूतिनेति।।
अथासौ कपालशकलग्रन्थिकावशेषः कंचिद्राममस्तं गच्छति रवी प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यत् । आवा॥ सकं च प्रार्थितवान् । तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य