________________
OR, THE LION AND THE BULL. Book I. Frame-story.
Tale ii: Jackal and drum. सत्त्वमिह प्रविष्टम् । यस्यायं निर्घोषः श्रूयते । शब्दानुरूपेण सत्त्वेन च भवितव्यम् । | सत्त्वानुरूपेण च पराक्रमेण । यश्च परस्य भयं प्रयुङ्के । स एव भयं न वेत्ति । ३ तत्सर्वथा नेह स्थातव्यम् । दमनक आह । किं शब्दमात्रादेव भयमुपागतः स्वमी । अपि च ।
अम्भसा भिद्य ते सेतस्तथा मन्त्रो ऽप्यरक्षितः ।
6 पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥ ५० ॥ तन्न युक्तं स्वामिनः शब्दमात्रादेव पूर्वोपार्जितमिदं वनं परित्यक्तम् । इह ह्यनेकप्रकाराः शब्दाः श्रूयन्ते । तत्र ये शब्दा एव केवला: । न तेभ्यो भयं विद्यते । 9 तद्यथा । मेघस्तनितवीणावेणुपणवमृदङ्गघण्टाकवाटयन्त्रशकटादीनाम् । न तेभ्य: शङ्कितव्यम् । उक्तं च ।
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । - 12 अनुप्रविश्य विज्ञातं यावद्दार च चर्म च ॥ १ ॥ पिङ्गलकः । कथमेतत् । दमनकः ।
॥ कथा २॥ 15 अस्ति । कश्चिद्गोमायुराहारविच्छेदात्क्षुत्क्षामकण्ठ इतश्चेतः परिभ्रमन्नुभयसैन्यस्यायोधनभूमिमपश्यत् । तत्र च महान्तं शब्दमश
णोत् । तद्भयसंक्षुभितहृदयः किमिदम् । विनष्टो ऽस्मि । कस्यायं 18 शब्दः । क्व वा कीदृशो वैष शब्दः । इति चिन्तयता दृष्टा गिरिशिखराकारा भेरी । तां च दृष्ट्वाचिन्तयत् । किमयं शब्दो ऽस्याः स्वाभाविकः । उत परप्रेरित इति । अथ सा यदा वायुप्रेरितैर्व1 क्षाः स्पृश्यते । तदा शब्दं करोति । अन्यदा न । इति तूष्णीमास्ते । स तु तस्याः सारासारतां ज्ञातुं संनिकर्षमुपश्लिष्टः । स्वयं
च कौतुकादुभयोर्मुखयोरताडयत् । अचिन्तयच्च । गम्यं चैतद्भक्ष्यं 24 च मम । इत्यवधायैकदंष्ट्रया क्षुधाविष्टः पाटितवान् । परुषत्वाच्च
चर्मणः कथमपि न दंष्ट्राभङ्गमवाप्तवान् । प्रतिबद्धाशश्च पुनरप्यचिन्तयत् । नूनमस्या अन्तर्भक्ष्यं भविष्यति । इत्यध्यवस्य भेर्या मुखं