________________
A24
A 25
A 26
10
पाषाणभारसहस्रं यः स्कन्धेनाभिवाञ्छति हि वोढुम् । श्रममेति विनाशं वा सो ऽबुद्धिस्तद्वहन्नेव ॥ ४१ ॥ अङ्गुष्ठोदरमाचं विशेषवित्प्राप्य पद्मरागमणिम् । सुखसंवाह्यमनुत्तरमर्थ किं तेन नाप्नोति ॥ ४२ ॥ तेन हि स्वामिगुणादेव भृत्यविशेषः । कथम् ।
• अश्वः शास्त्रं शस्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ४३ ॥
यच्च सृगालो ऽयमिति मत्वा ममोपर्यनादरः क्रियते । तदप्ययुक्तम् । यतः । विष्णुः सूकररूपेण मृगरूपी महानृषिः । षण्मुखश्छागरूपेण पूज्यते किं न साधुभिः ॥ ४४ ॥
3
9
अपि च ।
12 नैतदेकान्ततः सिद्धं गृहजातश्चिरन्तनः ।
भृतः श्रेयस्करो नित्यममात्यो निभृतस्त्विति ॥ ४५ ॥
तथा हि ।
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
15
मूषको गृहजातो ऽपि हन्तव्यो ऽनुपकारकः । उपप्रदानैर्मार्जारो हितकृत्प्रार्थते ऽन्यतः ॥ ४६ ॥ एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः ।
18 दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥ ४७ ॥ किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन्यथावज्ज्ञातुमर्हसि ॥ ४८ ॥
21 अपि च ।
अविज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्राधान्याद्भवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये भवति हि न नीतिर्गुणवती । प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलम् ॥ ४९ ॥ पिङ्गलक आह । भद्र । मैवं वोचः । चिरन्तनस्त्वमस्माकं मन्त्रिपुत्रः । दमनकः । 27 देव । किंचिद्वक्तव्यमस्ति । पिङ्गलकः । ब्रूहि । यत्ते विवक्षितम् । दमनकः । उदकग्रहणाभिप्रवृत्तमतिः स्वामी । तत्किं निमित्तमिहावस्थितः । पिङ्गलक आत्मप्रच्छादनार्थम् । दमनक । न किंचित्कारणमस्ति । दमनकः । देव । यदि नाख्येयं नाम । 30 तद्गच्छामि । अथ पिङ्गलकस्तच्छ्रुत्वा चिन्तयामास । योग्यो ऽयम् । आख्येयमस्मै । आह च । दमनक । श्रूयतामयं शब्दः । स आह । स्वामिन् । व्यक्तं श्रुतः शब्दः । पिङ्गलक आह । भद्र । अस्माद्वनादपक्रामितुमिच्छामि । यत्कारणम् । इदमपूर्व
24