SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ A14 A 15 A 16 A17 A 18 7 OR, THE LION AND THE BULL. Frame-story: Lion and bull. तदेनमद्यैव प्रज्ञाप्रभावेनात्मीकरिष्यामि । करटकः । भद्र । अनभिज्ञो भवान्सेवाधर्मस्य । कथमात्मीकरिष्यसि । दमनकः । कथमहं सेवानभिज्ञः । ननु मयैष स* कलो ऽनुजीविधर्मो विज्ञातः । अपि च । को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १७ ॥ • करटकः । कदाचिदसावनुचितप्रवेशाद्भवन्तमवमन्यते । दमनकः । अस्त्येतत् । तथापि । Book I. आसन्नमेव नृपतिर्भजते मनुष्यं • प्रज्ञाविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ १८ ॥ अपि च । 18 12 कोपप्रसाद वस्तूनि विचिन्वन्तः समीपगाः । आरोहन्ति शनैर्भृत्या धूर्त तमपि पार्थिवम् ॥ १९ ॥ करटकः । अथ भवान्किं तत्र वक्ष्यति । दमनकः । भद्र 15 उत्तरादुत्तरं वाक्यमुत्तरादेव जायते । सुवृष्टिगुणसंपन्नाद्बीजाद्वीजमिवापरम् ॥ २० ॥ अपायसंदर्शनजां विपत्ति मुपायसंदर्शनजां च सिद्धिम् । मेधाविनो नीतिविदः प्रयुक्तां 21 पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २१ ॥ न चाहमप्राप्तकालं वच्यामि । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । 24 लभते बुद्ध्यवज्ञानमवमानं च केवलम् ॥ २२ ॥ साधु चेदमुच्यते । नादेशे नाकाले नापरिपक्वेन्द्रिये न गुणहीने । 27 कथयति कथां हि सुकथो न ततो ऽस्य कथा भवति वन्ध्या ॥ २३ ॥ अपि च । कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन । 30 स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥ २४ ॥ करटकः । दुरारोहाश्च नरपतयः पर्वता इवाजस्रं प्रकृतिविषमा रन्ध्रान्वेषिणश्छलग्राहिणश्च । कुतः ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy