SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 5 9 OR, THE LION AND THE BULL. Book I. Tale i: Ape and wedge. ॥ कथा १ ॥ अस्ति कश्चिद्वणिजकः । नगरसमीपे तेन देवतायतनं क्रियते । · तत्र ये कर्मकाराः स्थपत्यादयः । ते मध्याह्नवेलायामाहारनिमित्तं भोजनमण्डपमनुप्रविष्टाः । अकस्माच्चानुषङ्गिकं देवगृहे वानरयूथमागतम्। अथ तत्रैकस्य शिल्पिनो ऽर्धस्फोटितकाष्ठस्तम्भो ऽर्जुन• मयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावष्टब्धो ऽवतिष्ठते । तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य स्वेच्छया तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुमारब्धः । एकस्तु तत्रासन्नविनाशश्वापलादुपविश्य स्तम्भे यन्त्रचारमुद्दिश्येदमाह । केनायमस्थाने कीलको निखातः । इति पाणिभ्यामेव संगृह्योत्पाटयितुमारब्धः । स्थानाच्चलिते कीले यद्वृत्तम् । तदनाख्येयम् । एवमेव भवता ज्ञातमिति । 12 Frame-story. अतोऽहं ब्रवीमि । अव्यापारः प्राज्ञैः परिहर्तव्यः । इति । पुनञ्चाब्रवीत् । आवयोस्तावद्भक्षितशेषमाहार निर्वर्तनमस्त्येव । करटकं दमनक आह । कथमाहारमात्रार्थी 15 केवलं भवान् । सर्वस्तावत्प्रधानसेवां कुरुते विशेषार्थी । साधु चेदमुच्यते । सुहृदामुपकारकारणाद्विषतामप्यपकारकारणात् । 18 नृपसंश्रय दृष्यते बुधै अपि च । जठरं को न बिभर्ति केवलम् ॥ ६ ॥ 21 स्वल्पं स्नायुवसावसेकमलिनं निर्मासमप्यस्थि गोः वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्वत्का निहन्ति द्विपं 24 सर्वः कृच्छ्रगतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ७ ॥ अन्यञ्च ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy