SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ A7 A8 A 9 A10 4 Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. ज्ञतया प्रेतकृत्यानि तस्य कृत्वा गतः । अथासावपि संजीवक आयु:शेषतया सलिलपृषतैर्वायुनाप्यायितशरीरः कथंचिदुत्थाय यमुनाकच्छमुपश्चिष्टः । तत्र च मरकतः सदृशानि शष्पाग्राणि भक्षयन्कतिपयै रहोभिर्हरवृषभ इव पीनककुदधारी बलवान्संवृत्तः । प्रत्यहं च वल्मीकशिखराणि शृङ्गाग्रघट्टितैरुल्लिखन्नदंश्च प्रतितिष्ठति । अथ कदाचित्तस्मिन्वने सर्वमृगपरिवृतः पिङ्गलको नाम सिंह उदकग्रहणार्थ यमुनाकच्छमवतितीर्षुः संजीवकस्य महान्तं गर्जितशब्दमशृणोत् । तं च श्रुत्वातीवतुभितहृदय आकारमाच्छाय मण्डलवटप्रदेशे चतुर्मण्डलावस्थानेनावस्थितः । चतुर्म*ण्डलावस्थानं कृत्वा । सिंहः सिंहानुयायी काकरवः किंवृत्त इति मण्ड9 लानि । तत्र च सर्वेष्वेव ग्रामनगर पत्तनाधिष्ठान खेट खर्वटोयानाग्रहार कानन वनस्थानेष्वेक एव सिंहः स्थानीयो भवति । कतिपयसिंहानुयायिनस्तन्त्रधाराः । काकरववर्गा मध्यमवर्गाः । किंवृत्ता एवान्यस्थानवासिनः । अथ पिङ्गलक: सामान्यजनपरि12 वारः स्वजनसुहृज्जनच्छत्त्रचामरव्यजनवाहन विलासविस्तारविरहितमकृत्रिमसाहसेकान्तरसदर्पोन्नतमभद्ममानमदोत्सेकमसहमानस्वयंग्राहि निरङ्कुशदर्शनैश्वर्यमनभिज्ञमितरजनसेवितानां कृपणवचसां सामर्षरोषसंरम्भगर्भसंस्थानकामानां पुरुषाणामगम्यमनु15 त्चिप्ताञ्जलिपुटमदीनमभी तमकृतचाटुकर्मोदयमव्यवसायगुरुपौरुषाभिमानावष्टम्भभारभासुरमनन्यसेवि निःसङ्गमनात्संभरि परोपकारत्यक्तपुरुषकारफलमपरिभूतप्रार्थितमतुच्छमपगतदुर्गप्रतिसंस्कार वृत्तमगणितायव्यय विलोपमनन्यायत्तमौद्धत्योपार्जितप्रतापा18 तिशयमषाङ्गुण्यसंप्रधारणमप्रहरणाभरणं विरुद्धग्राममपरो चवृत्तमनाशङ्कनीयमनपेचितपरकलत्रमकापुरुषगम्यम् * अप्रार्थितमन्त्रच्छल पार्ष्णिग्राहासाराक्रन्दम् * अनिन्द्य- | मविघट्टिता शिक्षितस्तुतिप्रयोगमनिच्छाविघाति परिजननिरपेक्षलब्धग्रासनिवाससी21 हित्यं बहु सत्त्वाश्रमैकान्तविहारिणां त्यक्तकामानुशयरसानां वीतरागाणां यावदुपभोग्यमपाङ्गधीरावलोकिताभ्यवहार जलोपकरणं वनान्तरे निःसाध्वसमुच्चैः शिरो वहन्न्राजत्वमनुभवन्नास्ते । अपि च । 24 एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे । सत्त्वोच्छ्रिते मृगपती राजेति गिरः परिणमन्ति ॥ ४ ॥ तस्य च करटकदमनकनामानौ द्वौ सृगालो मन्त्रिपुत्रावास्ताम् । तौ च परस्परं 27 मन्त्रयतः । तदत्र दमनको ऽब्रवीत् । भद्र करटक । अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थमभिप्रवृत्तमतिः किं निमित्तमिहावस्थितः । सो ऽब्रवीत् । किमनेन व्यापारेणावयोरिति । उक्तं च । 6 30 अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स नरो निहतः शेते कीलोत्पाटीव मर्कटः ॥ ५ ॥ दमनक आह । कथं चैतत् । सो ऽब्रवीत् ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy