________________
॥ मित्रभेदं नाम प्रथमं तन्त्रम् ॥
अत इदमारभ्यते मित्रभेदं नाम प्रथमं तन्त्रम् । यस्थायमाद्यः श्लोकः ।
वर्धमानो महान्नेहः सिंहगोवृषयोर्वने । . ५ पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥
॥ तद्यथानुश्रूयते ॥ दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तत्र च धर्मोपार्जितवृत्तिर्वर्ध6 मानको नाम श्रेष्ठिपुत्रो बभूव । तस्य कदाचिच्चित्तमुत्पन्नम् । प्रभूते ऽपि वित्ते ऽर्थवृद्धिः करणीयेति । उक्तं च ।
अलब्धमर्थ लिप्सेत लब्धं रक्षेदवेक्षया ।
9 रचितं वर्धयेचैनं वृद्धं पात्रेषु निक्षिपेत् ॥ २॥ अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धिनी वर्धितस्य तीर्थप्रतिपादनी चेति लोकयात्रा । अरक्ष्यमाणो ह्यौँ बहूपद्रवतया सद्यो विनश्यति । अवर्धमानो ऽप्यञ्ज12 नादिक्षयदर्शनाच्छनैरप्युपयुज्यमान: क्षीयते । अनुपयुज्यमान: प्रयोजनोत्पत्तौ तुल्यो उप्राप्तेनेति । अतः प्राप्तस्य रक्षणविवर्धनोपयोगा: कार्याः । उक्तं च ।
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
16 तडाकोदरसंस्थानां परीवाह वाम्भसाम् ॥ ३ ॥ इति । एवं संप्रधार्य मथुरागामि भाण्डमुपसंगृह्य शुभे तिथौ गुरुजनानुज्ञातस्तस्मानगराद्विनिर्गतः । तस्य च द्वौ वृषभी वोढारावग्रधुरायां नन्दकसंजीवकनामा18 नावभूताम् । गच्छतस्तस्य कस्मिंश्चिद्देशे दूरावरूढगिरिनिर्झरस्खलितवारिजनितकर्द
मैकचरणवैकल्याच्छकटस्य चातिभारादभिहतः कथमपि दैववशात्संजीवको युगभङ्गं कृत्वा निषसाद । तं च दृष्ट्वा वर्धमानक: सार्थवाहः परं विषादमगमत् । यह 21 चोदीक्ष्य यदासी नावैकल्यतां लभते स्म । तदा तस्य रक्षिपुरुषान्दत्त्वा शेषसार्थसंरक्षणार्थ बहुपायं वनमिति मत्वा यथाभिलषितं दिगन्तरं प्रायात् । अन्यदा
वात्मभयात्तत्परै रक्षिपुरुषैरागत्य तस्य मृषोक्तम् । स्वामिन् । मृतो ऽसौ संजीवक 24 इति । अस्माभिश्चाग्न्यादिना सत्कृतः । इति । एतच्छ्रुत्वा वर्धमानः सार्थवाहश्च कृत