________________
A2
2
ब्रह्मन् । मदनुग्रहार्थमेताम्कुमारान्दुर्मेधसस्त्वमर्थशास्त्रं प्रत्यनन्य समान्कर्तुमर्हसि । अर्थमात्रया च त्वां संमानयिष्यामीति । एवमभिहितवति पार्थिवे विष्णुशर्मापि तं रा3 जानं विज्ञापितवान् ।
कार्य यथा वदति यः स तथा प्रकारो युक्तं न युक्तमिदमित्यविचार्यमेतत् ।
उद्दिश्य किं वदति को ऽनुशयो ऽस्य को यमेवार्थतत्त्वमिति तत्प्रभुणा विचार्यम् ॥ ४ ॥
तत्किं बहुना । श्रूयतामयं मम वचनसिंहनादः । नाहमर्थलिप्सुरित्येवं ब्रवीमि । 9 न च ममाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियस्य कश्चिदर्थोपभोगकालः । किंतु त्वद्धितार्थ बुद्धिपूर्वको ऽयमारम्भः । तल्लिख्यतामद्यतनो दिवसः । यद्यहं न षण्मासाभ्यन्तरात्तव पुत्रान्नीतिशास्त्रं प्रत्यनन्यसमान्करोमि । ततो ममार्हसि मार्गसंदर्शनेन हस्तशतमप12 क्रामयितुमिति ।
INTRODUCTION
6
-
एतामसंभाव्यां ब्राह्मणस्य प्रतिज्ञां श्रुत्वा ससचिवो राजा परं विस्मयमगमदाह च । यस्तावदर्थमेतं संपन्नमिति मां पुनर्विज्ञापयिष्यति । तस्याहं पुष्टमनुग्रहं करि15 ष्यामि । इत्युक्का सबहुमानं तस्मै समर्पितवान्कुमारान् । तेनापि च सूपायमालोच्य - शास्त्राणि लिखितानि पञ्च तन्त्राणि । न सो ऽस्ति तिरश्चां मनुष्याणां वा । यं यथायोगं स्वार्थसिद्धये न निवेशितवान् ॥
18 | कथामुखमेतत्समाप्तम् ॥