________________
॥ कथामुखम् ॥
DO
19/
DPARSONALoa
HOLARish
AUR
॥ औं स्वस्ति प्रजाभ्यः । औं नमो विघ्नहन्त्रे ॥
यचानिशं मधुकरीव मही निषमा 3 यत्पावनस्य मधुन: परमं निधानम् । तद्ब्रह्मणः सकलमण्डलपुण्डरीकं
पायादनन्तवपुषः फणमण्डलं वः ॥१॥ 6 मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च महते नमो ऽस्तु नृपशास्त्रकर्तृभ्यः ॥ २ ॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मापि । 9 तन्त्रः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ ३ ॥
॥ तथानुश्रूयते ॥ - दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तत्र च सकलार्थिजनमनोर12 थकल्पद्रुमः प्रवरनरपतिमुकुटमणिमरीचिनिचयरञ्जितचरणयुगल: कलासु पारंगमः
सकलार्थशास्त्रविदमरशक्तिर्नाम राजा बभूव । तस्य च पुत्रास्त्रयः परमदुर्मेधसो
वसुशक्तिरग्रशक्तिरनेकशक्तिश्चेतिनामानो बभूवुः । तानर्थशास्त्र प्रति जडानालोक्य 15 राजा सचिवानाइय संप्रधारितवान् । ज्ञातमेव भवनिः । यथा ममैते पुत्राः पर
मदुर्मेधसः । तदेषां बुद्धिप्रबोधनं केनोपायेनानुष्ठीयत इति । तत्र केचिदाहुः ।
देव । द्वादशभिर्वः किल व्याकरणं जायत इति । तत्र केचिदाहुः । न वा ज्ञा18 यते च । ततो धर्मार्थकामशास्त्राणि यानि । तदेतदतिगहनं धीमतामपि । किं पुनर्मन्दबुद्धीनाम् ।
तदत्र वस्तुनि नीतिशास्त्रविद्विष्णुशर्मा नाम ब्राह्मणो ऽनेकशास्त्रविख्यातकीर्ति21 रस्ति । तमाहय तसी समर्प्यन्तां कुमारा इति । एवमनुष्ठिते सचिवाहतः स राजान द्विजातिमार्गोचितेनाशीर्वादेनाभिनन्द्योपाविशत् । सुखोपविष्टं तमाह राजा ।