SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 119 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. तत्त्यागबुद्धिशौर्यसंपन्नस्य राज्यमिति । उक्तं च । त्यागिनि पूरे विद्या विदुषि मतिमति च गुणो गुणीभवति । 3 गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १२५ ॥ मेघवर्ण आह । तात । सद्यः फलति नीतिशास्त्रम् । यत्त्वयानुकूल्येनानुप्रविश्योलकराजो उपमर्दः सपरिजनो निःशेषः कृतः । चिरजीव्याह । देव । 6 तीक्ष्णोपायप्राप्तिगम्यो ऽपि यो ऽर्थस्तस्थाप्यादौ संश्रयः संप्रयुक्तः । उद्वीच्याग्रे लक्ष्मभूतो वनानां . नानभ्यर्च च्छिद्यते पादपेन्द्रः ॥ १२६ ॥ अथवा । स्वामिन् । किं तेनाभिहितेन । यदन्तं क्रियाकालरहितम् । साध्वभिहितम् । अनिश्चितरध्यवसायभीरभि12 र्यथेष्टसंलापरतिप्रयोजनः । फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ १२७ ॥ 15 न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः । यत्कारणम् । शच्यामि कर्तुमिदमल्पमयत्नसाध्यमत्रादरः क इति कृत्यमवेक्षमाणाः । 18 केचित्प्रमादतमसा परितापदुःख __ मापत्सु सङ्गमुलभं पुरुषाः प्रयान्ति ॥ १२८ ॥ तदद्य मम । विभो । निर्जितारेरद्यापूर्वनिद्रालाभो भविष्यति । कथम् । _1 नि:सर्प हतस वा वस्तुं हि भवने सुखम् । दृष्टनष्टभुजंगे तु निद्रा न लभते नरः ॥ १२९ ॥ तेन हि _ विस्तीर्णव्यवसायसारमहतां स्निग्धः प्रयुक्ताशिषां कार्याणां नयसाहसोनतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिन: पारं न यावद्गताः 27 सामर्षे हृदये ऽवकाशविषयास्तावत्कथं निर्वृताः ॥ १३० ॥ तदवसितकार्यारम्भस्य हि मे विश्राम्यतीव मनः । कथम् । विशति ज्वरमिव हृदयं गात्रं लघुतरमिवावसितसारम् । ___30 तीर्णार्णवस्य च मनो भवति रिपाववसितप्रतिज्ञस्य ॥ १३१ ॥ तदिदमधुना निहतकण्टकं राज्यं प्रजारञ्जनरक्षासमर्थो भूत्वा पुत्रपौत्रानुक्रमेण चामरच्छत्वासनश्रीविरं भङ्ग । अपि च ।
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy